2026-05-03 19:54:31 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>१०६
श्रीमद्भगवद्गीताभाष्ये
</ignore>

सुखेन निबर्हणं कर्तुं शक्यत इति-

<verse>इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते ।
एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम् ॥ ४० ॥
I
</verse>

इन्द्रियाणि मनः बुद्धिश्वच अस्य कामस्य अधिष्ठानम्
आश्रयः उच्यते । एतैः इन्द्रियादिभिः आश्रयैः विमोहयति
विविधं मोहयति एष कामः ज्ञानम् आवृत्य आच्छाद्य
देहिनं शरीरिणम् ॥

यतः एवम्-

<verse>तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ ।
पाप्मानं प्रजहिश्ह्येनं ज्ञानविज्ञाननाशनम् ॥ ४१ ॥
</verse>

तस्मात् त्वम् इन्द्रियाणि आदौ पूर्वमेव नियम्य वशीकृत्य
भरतर्षभ पाप्मानं पापाचारं कामं प्रजहिहि परित्यज एनं
प्रकृतं वैरिणं ज्ञानविज्ञाननाशनं ज्ञानं शास्त्रतः आचार्यतश्च
आत्मादीनाम् अवबोधः, विज्ञानं विशेषतः तदनुभवः, तयोः
ज्ञानविज्ञानयोः श्रेयः प्राप्तिहेत्वोः नाशनं नाशकरं प्रजहिहि
आत्मन:नः परित्यजेत्यर्थः ॥

इन्द्रियाण्यादौ नियम्य कामं शत्रुरुं जहिहि इत्युक्तम् ;
तत्र किमाश्रयः कामं जह्यात् इत्युच्यते—

</page>
<ignore>१०६

सुखेन निबर्हणं कर्तुं शक्यत इति
<verse>इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते ।
एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम् ॥ ४० ॥
I

इन्द्रियाणि मनः बुद्धिश्
आश्रयः उच्यते । एतैः इन्द्रियादिभिः आश्रयैः विमोहयति
विविधं मोहयति एष कामः ज्ञानम् आवृत्य आच्छाद्य
देहिनं शरीरिणम् ॥

यतः एवम्
<verse>तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ ।
पाप्मानं प्रजहि

तस्मात् त्वम् इन्द्रियाणि आदौ पूर्वमेव नियम्य वशीकृत्य
भरतर्षभ पाप्मानं पापाचारं कामं प्रजहिहि परित्यज एनं
प्रकृतं वैरिणं ज्ञानविज्ञाननाशनं ज्ञानं शास्त्रतः आचार्यतश्च
आत्मादीनाम् अवबोधः, विज्ञानं विशेषतः तदनुभवः, तयोः
ज्ञानविज्ञानयोः श्रेयः
आत्म

इन्द्रियाण्यादौ नियम्य कामं शत्
तत्र किमाश्रयः कामं जह्यात् इत्युच्यते—
</page>