Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
तृतीयोऽध्यायः ।
 
१०५
 
</ignore>
<p>
धूमेन सहजेन आम्व्रियते वह्निः प्रकाशात्मक :कः अप्रकाशा-

त्मकेन, यथा वा आदर्शो मलेन च, यथा उल्बेन च जरा-

युणा गर्भवेष्टनेन आवृतः आच्छादितः गर्भः तथा तेन

इदम् आवृतम् ॥
 
</p>
<p>
किं पुनस्तत् इदंशब्दवाच्यं यत् कामेनावृतमित्युच्यते-
—</p>
<verse>
आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा ।

कामरूपेण कौन्तेय दुष्पूरेणानलेन च ॥ ३९
 
॥</verse>
<p>
आवृतम् एतेन ज्ञानं ज्ञानिनः नित्यवैरिणा, ज्ञानी हि

जानाति '&apos;अनेन अहमनर्थे प्रयुक्त:'तः&apos; इति पूर्वमेव । दुःखी

च भवति नित्यमेव । अतः असौ ज्ञानिनो नित्यवैरी, न तु

मूर्खस्य । स हि कामं तृष्णाकाले मित्रमिव पश्यन् तत्कार्ये

दुःखे प्राप्ते जानाति ' &apos;तृष्णया अहं दुःखित्वमापादित: '
तः&apos;
इति, न पूर्वमेव । अतः ज्ञानिन एव नित्यवैरी । किंरूपेण ?

कामरूपेण कामः इच्छैव रूपमस्य इति कामरूपः तेन

दुष्पूरेण दुःखेन पूरणमस्य इति दुष्पूर:रः तेन अनलेन न

अस्य अलं पर्याप्तिः विद्यते इत्यनल:लः तेन च ॥
 
</p>
<p merge-next="true">
किमधिष्ठानः पुनः कामः ज्ञानस्य आवरणत्वेन वैरी

सर्वस्य लोकस्य ? इत्यपेक्षायामाह, ज्ञाते हि शत्रोरधिष्ठाने
 
</p>
</page>