Proofing

This page has not been fully proofread.

<page>
<ignore>
१०४
 
श्रीमद्भगवद्गीताभाष्ये
 
</ignore>
<p>
स्याथ मोक्षस्य षण्णां भग इतीङ्गना'&apos; ऐश्वर्यादिषट्कं यस्मिन्

वासुदेवे नित्यमप्रतिबद्धत्वेन सामस्त्येन च वर्तते, '&apos;उत्पत्तिं

प्रलयं चैव भूतानामागतिं गतिम् । वेत्ति विद्यामविद्यां च स

वाच्यो भगवानिति'&apos; उत्पत्त्यादिविषयं च विज्ञानं यस्य

स वासुदेवः वाच्यः भगवान् इति ॥
 
</p>
<p>
काम एषः सर्वलोकशत्रुः यन्निमित्ता सर्वानर्थप्राप्तिः प्राणि-

नाम् । स एष कामः प्रतिहतः केनचित् क्रोधत्वेन परिणमते ।

अतः क्रोधः अपि एष एव रजोगुणसमुद्भवः रजश्च तत् गुणश्च

रजोगुणः सः समुद्भवः यस्य सः कामः रजोगुणसमुद्भवः,

रजोगुणस्य वा समुद्भवः । कामो हि उद्भूतः रजः प्रवर्तयन्

पुरुषं प्रवर्तयति ; '&apos;तृष्णया हि अहं कारितः'&apos; इति दुःखिनां

रजःकार्ये सेवादौ प्रवृत्तानां प्रलापः श्रूयते । महाशन: 'नः महत्

अशनं अस्येति महाशन:नः ; अत एव महापाप्मा ; कामेन हि

प्रेरित:तः जन्तुः पापं करोति । अतः विद्धि एनं कामम् इह

संसारे वैरिणम् ॥
 

 
</p>
<p>
कथं वैरी इति दृष्टान्तैः प्रत्याययति-
 
ता.
 
—</p>
<verse>
धूमेनाब्व्रियते वह्निर्यथादर्शो मलेन च ।

यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम् ॥ ३८ ॥
 
</verse>
</page>