2026-05-03 20:01:43 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>तृतीयोऽध्यायः ।
१०३
</ignore>
<p>यद्यपि अनर्थमूलम्''ध्यायतो विषयान्पुंसः'' इति ''राग-
द्वेषौ ह्यस्य परिपन्थिनौ'' इति च उक्तम् , विक्षिप्तम् अनव - .
धारितं च तदुक्तम् । तत् संक्षिप्तं निश्चितं च इदमेवेति
ज्ञातुमिच्छन् अर्जुन:नः उवाच '‘ज्ञाते हि तस्मिन् तदुच्छेदाय
यत्नं कुर्याम्'' इति
॥</p>
<verse>अर्जुन उवाच-
—
अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः ।
अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः ॥
... ३६ ॥</verse>
<p>अथ केन हेतुभूतेन प्रयुक्तः सन् राज्ञेव भृत्यः अयं पापं
कर्म चरति आचरति पूरुषः पुरुषः स्वयम् अनिच्छन् अपि
हे वार्ष्णेय वृष्णिकुलप्रसूत, बलात् इव नियोजितः राज्ञेव
इत्युक्तो दृष्टान्तः ॥
</p>
<p>शृणु त्वं तं वैरिणं सर्वानर्थकरं यं त्वं पृच्छसि इति
भगवान् उवाच-
—</p>
<verse>श्रीभगवानुवाच-
—
काम एष क्रोध एष रजोगुणसमुद्भवः ।
महाशनो महापाप्मा विधेद्ध्येनमिह वैरिणम् ॥
.
' ३७ ॥</verse>
<p merge-next="true">'ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः । वैराग्य-
</p>
</page>
<ignore>तृतीयोऽध्यायः ।
<p>यद्यपि अनर्थमूलम्
द्वेषौ ह्यस्य परिपन्थिनौ
धारितं च तदुक्तम् । तत् संक्षिप्तं निश्चितं च इदमेवेति
ज्ञातुमिच्छन् अर्जु
यत्नं कुर्याम्
<verse>अर्जुन उवाच
अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः ।
अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः ॥
...
<p>अथ केन हेतुभूतेन प्रयुक्तः सन् राज्ञेव भृत्यः अयं पापं
कर्म चरति आचरति पूरुषः पुरुषः स्वयम् अनिच्छन् अपि
हे वार्ष्णेय वृष्णिकुलप्रसूत, बलात् इव नियोजितः राज्ञेव
इत्युक्तो दृष्टान्तः ॥
<p>शृणु त्वं तं वैरिणं सर्वानर्थकरं यं त्वं पृच्छसि इति
भगवान् उवाच
<verse>श्रीभगवानुवाच
काम एष क्रोध एष रजोगुणसमुद्भवः ।
महाशनो महापाप्मा वि
.
'
<p merge-next="true">'ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः । वैराग्य-
</page>