Proofing

This page has not been fully proofread.

तृतीयोऽध्यायः ।
 
१०३
 
यद्यपि अनर्थमूलम् 'ध्यायतो विषयान्पुंसः' इति 'राग-
द्वेषौ ह्यस्य परिपन्थिनौ' इति च उक्तम्, विक्षिप्तम् अनव - .
धारितं च तदुक्तम् । तत् संक्षिप्तं निश्चितं च इदमेवेति
ज्ञातुमिच्छन् अर्जुन: उवाच 'ज्ञाते हि तस्मिन् तदुच्छेदाय
यत्नं कुर्याम्' इति
 
अर्जुन उवाच-
 
अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः ।
अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः ॥
 
... अथ केन हेतुभूतेन प्रयुक्तः सन् राज्ञेव भृत्यः अयं पापं
कर्म चरति आचरति पूरुषः पुरुषः स्वयम् अनिच्छन् अपि
हे वार्ष्णेय वृष्णिकुलप्रसूत, बलात् इव नियोजितः राज्ञेव
इत्युक्तो दृष्टान्तः ॥
 
शृणु त्वं तं वैरिणं सर्वानर्थकरं यं त्वं पृच्छसि इति
 
भगवान् उवाच -
 
श्रीभगवानुवाच-
 
काम एष क्रोध एष रजोगुणसमुद्भवः ।
महाशनो महापाप्मा विधेनमिह वैरिणम् ॥
 
.
 
'ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः । वैराग्य-