Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
१०२
 
श्रीमद्भगवद्गीताभाष्ये
 
</ignore>
<p>
इष्टे रागः अनिष्टे द्वेषः इत्येवं प्रतीन्द्रियार्थं रागद्वेषौ अवश्यं-

भाविनौ तत्र अयं पुरुषकारस्य शास्त्रार्थस्य च विषय

उच्यते । शास्त्रार्थे प्रवृत्तः पूर्वमेव रागद्वेषयोर्वशं नागच्छेत् ।

या हि पुरुषस्य प्रकृतिः सा रागद्वेषपुरःसरैव स्वकार्ये पुरुषं

प्रवर्तयति । तदा स्वधर्मपरित्यागः परधर्मानुष्ठानं च भवति ।

यदा पुनः रागद्वेषौ तत्प्रतिपक्षेण नियमयति तदा शास्त्रदृष्टि-

रेव पुरुषः भवति, न प्रकृतिवशः । तस्मात् तयोः रागद्वे-

षयोः वशं न आगच्छेत् , यतः तौ हि अस्य पुरुषस्य

परिपन्थिनौ श्रेयोमार्गस्य विघ्नकर्तारौ तस्करौ इव पथी-

त्यर्थः ॥
 
</p>
<p>
तत्र रागद्वेषप्रयुक्तो मन्यते शास्त्रार्थमप्यन्यथा '&apos;परधर्मो-

ऽपि धर्मत्वात् अनुष्ठेय एव'&apos; इति, तदसत् —
</p>
<verse>
श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् ।

स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥ ३५ ॥
 
</verse>
<p>
श्रेयान् प्रशस्यतरः स्वो धर्मः स्वधर्मः विगुणः अपि

विगतगुणोऽपि अनुष्ठीयमानः परधर्मात् स्वनुष्ठितात् सानुद्गु-

ण्
येन संपादितादपि । स्वधर्मे स्थितस्य निधनं मरणमपि

श्रेयः परधर्मे स्थितस्य जीवितात् । कस्मात् ? परधर्मः भया-
वह:

वहः
नरकादिलक्षणं भयमावहति यतः ॥
 
</p>
</page>