Proofing

This page has not been fully proofread.

तृतीयोऽध्यायः ।
 
१०१
 
कस्मात् पुनः कारणात् त्वदीयं मतं नानुतिष्ठन्ति, परध-
मन् अनुतिष्ठन्ति, स्वधर्मं च नानुवर्तन्ते, त्वत्प्रतिकूलाः कथं
न बिभ्यति त्वच्छासनातिक्रमदोषात् ? तत्राहं ---
 
सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि ।
प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ॥
 
सदृशम् अनुरूपं चेष्टते चेष्टां करोति । कस्य ? स्वस्याः
स्वकीयायाः प्रकृतेः । प्रकृतिर्नाम पूर्वकृतधर्माधर्मादिसंस्कारः
वर्तमानजन्मादौ अभिव्यक्तः; सा प्रकृतिः । तस्याः सदृश-
मेव सर्वो जन्तुः ज्ञानवानपि चेष्टते, किं पुनर्मूर्खः । तस्मात्
प्रकृतिं यान्ति अनुगच्छन्ति भूतानि प्राणिनः । निग्रहः
निषेधरूपः किं करिष्यति मम वा अन्यस्य वा ॥
 
यदि सर्वो जन्तुः आत्मनः प्रकृतिसदृशमेव चेष्टते, न च
प्रकृतिशून्यः कश्चित् अस्ति, ततः पुरुषकारस्य विषयानुप-
पत्तेः शास्त्रानर्थक्यप्राप्तौ इदमुच्यते-
 
इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ ।
तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्धिनौ ॥
 
इन्द्रियस्येन्द्रियस्य अर्थे सर्वेन्द्रियाणामर्थे शब्दादिविषये