Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
१००
 
श्रीमद्भगवद्गीताभाष्ये
 
</ignore>
<p>
कर्ता ईश्वराय भृत्यवत् करोमि&apos; इत्यनया बुद्धधाध्या । किंच,

निराशीः त्यक्ताशी: निर्मम:शीः निर्ममः ममभावश्च निर्गतः यस्य तव

स त्वं निर्ममो भूत्वा युध्यस्व विगतज्वरः विगत संताप :
पः
विगतशोकः सन्नित्यर्थः ॥
 
</p>
<p>
यदेतन्मम मतं कर्म कर्तव्यम् इति सप्रमाणमुक्तं तत्
 

तथा-
 
—</p>
<verse>
ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः ।

श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः ॥
 
३१ ॥</verse>
<p>
ये मे मदीयम् इदं मतं नित्यम् अनुतिष्ठन्ति अनुवर्तन्ते

मानवाः मनुष्याः श्रद्धावन्तः श्रद्धानाः अनसूयन्तः असूयां

च मयि परमगुरौ वासुदेवे अकुर्वन्तः, मुच्यन्ते तेऽपि एवं -

भूताः कर्मभिः धर्माधर्माख्यैः ॥
 
</p>
<verse>
ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् ।

सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतसः ॥ ३२
 
</verse>
<p>
ये तु तद्विपरीताः एतत् मम मतम् अभ्यसूयन्तः निन्द-

न्तः न अनुतिष्ठन्ति नानुवर्तन्ते मे मतम् , सर्वेषु ज्ञानेषु वि-

विधं मूढाः
ते । सर्वज्ञानविमूढान् तान् विद्धि जानीहि
 
विधं मूढाः
 

नष्टान् नाशं गतान् अचेतसः अविवेकिनः ॥
 
</p>
</page>