Proofing

This page has not been fully proofread.

१००
 
श्रीमद्भगवद्गीताभाष्ये
 
कर्ता ईश्वराय भृत्यवत् करोमि इत्यनया बुद्धधा । किंच,
निराशीः त्यक्ताशी: निर्मम: ममभावश्च निर्गतः यस्य तव
स त्वं निर्ममो भूत्वा युध्यस्व विगतज्वरः विगत संताप :
विगतशोकः सन्नित्यर्थः ॥
 
यदेतन्मम मतं कर्म कर्तव्यम् इति सप्रमाणमुक्तं तत्
 
तथा-
 
ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः ।
श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः ॥
 
ये मे मदीयम् इदं मतं नित्यम् अनुतिष्ठन्ति अनुवर्तन्ते
मानवाः मनुष्याः श्रद्धावन्तः श्रद्दधानाः अनसूयन्तः असूयां
च मयि परमगुरौ वासुदेवे अकुर्वन्तः, मुच्यन्ते तेऽपि एवं -
भूताः कर्मभिः धर्माधर्माख्यैः ॥
 
ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् ।
सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतसः ॥३२॥
 
ये तु तद्विपरीताः एतत् मम मतम् अभ्यसूयन्तः निन्द-
न्तः न अनुतिष्ठन्ति नानुवर्तन्ते मे मतम्, सर्वेषु ज्ञानेषु वि-
ते । सर्वज्ञानविमूढान् तान् विद्धि जानीहि
 
विधं मूढाः
 
नष्टान् नाशं गतान् अचेतसः अविवेकिनः ॥