Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
तृतीयोऽध्यायः ।

९९

</ignore>

भागयोः गुणविभागस्य कर्मविभागस्य च तस्त्त्ववित् इत्यर्थः ।
गुणा:

गुणाः
करणात्मकाः गुणेषु विषयात्मकेषु वर्तन्ते न आत्मा

इति मत्वा न सज्जते सक्तितिं न करोति ॥

ये पुनः--

<verse>
प्रकृतेर्गुणसंमूढाः सज्जन्ते गुणकर्मसु ।

तानकृत्स्नविदो मन्दान्कृत्स्नविन्न विचालयेत् ॥

२९ ॥</verse>

प्रकृतेः गुणैः सम्यक् मूढाः संमोहिताः सन्तः सज्जन्ते

गुणानां कर्मसु गुणकर्मसु ''वयं कर्म कुर्मः फलाय'' इति ।

तान् कर्मसङ्गिनः अकृत्स्नविदः कर्मफलमात्रदर्शिनः मन्दान्

मन्दप्रज्ञान् कृत्स्नवित् आत्मवित् स्वयं न विचालयेत् बुद्धि-

भेदकरणमेव चालनं तत् न कुर्यात् इत्यर्थः ॥

कथं पुनः कर्मण्यधिकृतेन अज्ञेन मुमुक्षुणा कर्म कर्तव्य-

मिति, उच्यते

<verse>
मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा ।

निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः ॥

<fix> ३० ॥</fix></verse>

मयि वासुदेवे परमेश्वरे सर्वज्ञे सर्वात्मनि सर्वाणि कर्मा-

णि संन्यस्य निक्षिप्य अध्यात्मचेतसा विवेकबुद्धधा 'ध्या 'अहं

</page>