Proofing

This page has not been fully proofread.

तृतीयोऽध्यायः ।
 
९९
 
भागयोः गुणविभागस्य कर्मविभागस्य च तस्त्ववित् इत्यर्थः ।
गुणा: करणात्मकाः गुणेषु विषयात्मकेषु वर्तन्ते न आत्मा
इति मत्वा न सज्जते सक्ति न करोति ॥
 
ये पुनः--
 
प्रकृतेर्गुणसंमूढाः सज्जन्ते गुणकर्मसु ।
तानकृत्स्नविदो मन्दान्कृत्स्नविन्न विचालयेत् ॥
 
प्रकृतेः गुणैः सम्यक् मूढाः संमोहिताः सन्तः सज्जन्ते
गुणानां कर्मसु गुणकर्मसु 'वयं कर्म कुर्मः फलाय' इति ।
तान् कर्मसङ्गिनः अकृत्स्नविदः कर्मफलमात्रदर्शिनः मन्दान्
मन्दप्रज्ञान् कृत्स्नवित् आत्मवित् स्वयं न विचालयेत् बुद्धि-
• भेदकरणमेव चालनं तत् न कुर्यात् इत्यर्थः ॥
 
कथं पुनः कर्मण्यधिकृतेन अज्ञेन मुमुक्षुणा कर्म कर्तव्य-
मिति, उच्यते—
 
मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा ।
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः ॥
 
मयि वासुदेवे परमेश्वरे सर्वज्ञे सर्वात्मनि सर्वाणि कर्मा-
णि संन्यस्य निक्षिप्य अध्यात्मचेतसा विवेकबुद्धधा 'अहं