Proofing

This page has not been fully proofread.

९८
 
श्रीमद्भगवद्गीताभाष्ये
 
कर्मसङ्गिनां कर्मणि आसक्तानां आसङ्गवताम् । किं नु
कुर्यात् ? जोषयेत् कारयेत् सर्वकर्माणि विद्वान् स्वयं तदेव
अविदुषां कर्म युक्तः अभियुक्तः समाचरन् ॥
 
अविद्वानज्ञः कथं कर्मसु सज्जते इत्याह-
प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः ।
अहंकारविमूढात्मा कर्ताहमिति मन्यते ॥ २७ ॥
 
प्रकृतेः प्रकृतिः प्रधानं सत्त्वरजस्तमसां गुणानां साम्या-
वस्था तस्याः प्रकृतेः गुणैः विकारै: कार्यकरणरूपैः क्रिय-
माणानि कर्माणि लौकिकानि शास्त्रीयाणि च सर्वशः सर्व-
प्रकारैः अहंकारविमूढात्मा कार्यकरणसंघातात्मप्रत्ययः अहं-
कारः तेन विविधं नानाविधं मूढः आत्मा अन्तःकरणं
यस्य सः अयं कार्यकरणधर्मा कार्यकरणाभिमानी अविद्यया
कर्माणि आत्मनि मन्यमानः तत्तत्कर्मणाम् अहं कर्ता इति
मन्यते ॥
 
यः पुनर्विद्वान्—
 
तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः ।
गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते ॥ २८ ॥
तत्त्ववित् तु महाबाहो । कस्य तत्त्ववित् ? गुणकर्मवि-