2026-05-03 20:36:50 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>तृतीयोऽध्यायः ।
९७
</ignore>
<p>यदि पुनः अहमिव त्वं कृतार्थबुद्धिः, आत्मवित् अन्यो
वा, तस्यापि आत्मनः कर्तव्याभावेऽपि परानुग्रह एव
कर्तव्य इत्याह--
—</p>
<verse>सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत ।
कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसंग्रहम् ॥ २५ ॥
</verse>
<p>सक्ताः कर्मणि''अस्य कर्मणः फलं मम भविष्यति'
'
इति केचित् अविद्वांसः यथा कुर्वन्ति भारत, कुर्यात्
विद्वान् आत्मवित् तथा असक्तः सन् । तद्वत् किमर्थे
थं
करोति ? तत् शृणु-— चिकीर्षुः कर्तुमिच्छुः लोकसंग्रहम् ॥
</p>
<p>एवं लोकसंग्रहं चिकीर्षोः न मम आत्मविदः कर्तव्यमस्ति
अन्यस्य वा लोकसंग्रहं मुक्त्वा । ततः तस्य आत्मविदः
इदमुपदिश्यते-
—</p>
<verse>न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् ।
जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन् ॥
<fix> २६ ॥</fix></verse>
<p>बुद्धेर्भेदः बुद्धिभेद: 'दः 'मया इदं कर्तव्यं भोक्तव्यं चास्य
कर्मणः फलम्'' इति निश्चयरूपाया बुद्धेः भेदनं चालनं
बुद्धिभेदः तं न जनयेत् न उत्पादयेत् अज्ञानाम् अविवेकिनां
</p>
<ignore>S. B. 7
</ignore>
</page>
<ignore>तृतीयोऽध्यायः ।
<p>यदि पुनः अहमिव त्वं कृतार्थबुद्धिः, आत्मवित् अन्यो
वा, तस्यापि आत्मनः कर्तव्याभावेऽपि परानुग्रह एव
कर्तव्य इत्याह
<verse>सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत ।
कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसंग्रहम् ॥ २५ ॥
<p>सक्ताः कर्मणि
इति केचित् अविद्वांसः यथा कुर्वन्ति भारत, कुर्यात्
विद्वान् आत्मवित् तथा असक्तः सन् । तद्वत् किमर्
करोति ? तत् शृणु
<p>एवं लोकसंग्रहं चिकीर्षोः न मम आत्मविदः कर्तव्यमस्ति
अन्यस्य वा लोकसंग्रहं मुक्त्वा । ततः तस्य आत्मविदः
इदमुपदिश्यते
<verse>न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् ।
जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन् ॥
<p>बुद्धेर्भेदः बुद्धिभे
कर्मणः फलम्
बुद्धिभेदः तं न जनयेत् न उत्पादयेत् अज्ञानाम् अविवेकिनां
<ignore>S. B. 7
</page>