Proofing

This page has not been fully proofread.

तृतीयोऽध्यायः ।
 
९७
 
यदि पुनः अहमिव त्वं कृतार्थबुद्धिः, आत्मवित् अन्यो
वा, तस्यापि आत्मनः कर्तव्याभावेऽपि परानुग्रह एव
कर्तव्य इत्याह--
 
सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत ।
कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसंग्रहम् ॥२५॥
 
सक्ताः कर्मणि 'अस्य कर्मणः फलं मम भविष्यति'
इति केचित् अविद्वांसः यथा कुर्वन्ति भारत, कुर्यात्
विद्वान् आत्मवित् तथा असक्तः सन् । तद्वत् किमर्थे
करोति ? तत् शृणु - चिकीर्षुः कर्तुमिच्छुः लोकसंग्रहम् ॥
 
एवं लोकसंग्रहं चिकीर्षोः न मम आत्मविदः कर्तव्यमस्ति
अन्यस्य वा लोकसंग्रहं मुक्त्वा । ततः तस्य आत्मविदः
इदमुपदिश्यते-
 
न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् ।
जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन् ॥
 
बुद्धेर्भेदः बुद्धिभेद: 'मया इदं कर्तव्यं भोक्तव्यं चास्य
कर्मणः फलम्' इति निश्चयरूपाया बुद्धेः भेदनं चालनं
बुद्धिभेदः तं न जनयेत् न उत्पादयेत् अज्ञानाम् अविवेकिनां
 
S. B. 7