Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
९६
 
श्रीमद्भगवद्गीताभाष्ये
 
</ignore>
<verse>
न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किंचन ।

नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि ॥ २२ ॥
 
</verse>
<p>
न मे मम पार्थ न अस्ति न विद्यते कर्तव्यं त्रिषु अपि

लोकेषु किंचन किंचिदपि । कस्मात् ? न अनवाप्तम् अप्राप्तम्

अवाप्तव्यं प्रापणीयम् , तथापि वर्ते एव च कर्मणि अहम् ॥
 

 
</p>
<verse>
यदि ह्यहं न वर्तेय जातु कर्मण्यतन्द्रितः ।

मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥ २३
 
॥</verse>
<p>
यदि हि पुनः अहं न वर्तेय जातु कदाचित् कर्मणि अत-

न्द्रितः अनलसः सन् मम श्रेष्ठस्य सतः वर्त्म मार्गम् अनु-

वर्तन्ते मनुष्याः हे पार्थ, सर्वशः सर्वप्रकारैः ॥
</p>
<verse>
उत्सीदेयुरिमे लोका न कुर्यायां कर्म चेदहम् ।

संकरस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः
 
॥<fix> २४ ॥</fix></verse>
<p>
उत्सीदेयुः विनश्येयुः इमे सर्वे लोकाः लोकस्थितिनि-

मित्तस्य कर्मणः अभावात् न कुर्यायां कर्म चेत् अहम् ।

किंच, संकरस्य च कर्ता स्याम् । तेन कारणेन उपहन्याम्

इमाः प्रजाः । प्रजानामनुग्रहाय प्रवृत्तः उपहतिम् उपहननं

कुर्याम् इत्यर्थः । मम ईश्वरस्य अननुरूपमापद्येत ॥
 
</p>
</page>