Proofing

This page has not been fully proofread.

९६
 
श्रीमद्भगवद्गीताभाष्ये
 
न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किंचन ।
नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि ॥ २२ ॥
 
न मे मम पार्थ न अस्ति न विद्यते कर्तव्यं त्रिषु अपि
लोकेषु किंचन किंचिदपि । कस्मात् ? न अनवाप्तम् अप्राप्तम्
अवाप्तव्यं प्रापणीयम्, तथापि वर्ते एव च कर्मणि अहम् ॥
 

 
यदि ह्यहं न वर्तेय जातु कर्मण्यतन्द्रितः ।
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥ २३॥
 
यदि हि पुनः अहं न वर्तेय जातु कदाचित् कर्मणि अत-
न्द्रितः अनलसः सन् मम श्रेष्ठस्य सतः वर्त्म मार्गम् अनु-
वर्तन्ते मनुष्याः हे पार्थ, सर्वशः सर्वप्रकारैः ॥
उत्सीदेयुरिमे लोका न कुर्या कर्म चेदहम् ।
संकरस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः ।
 
उत्सीदेयुः विनश्येयुः इमे सर्वे लोकाः लोकस्थितिनि-
मित्तस्य कर्मणः अभावात् न कुर्या कर्म चेत् अहम् ।
किंच, संकरस्य च कर्ता स्याम् । तेन कारणेन उपहन्याम्
इमाः प्रजाः । प्रजानामनुग्रहाय प्रवृत्तः उपहतिम् उपहननं
कुर्याम् इत्यर्थः । मम ईश्वरस्य अननुरूपमापद्येत ॥