2026-05-03 20:41:07 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>तृतीयोऽध्यायः ।
९५
</ignore>
<p>श्वपतिप्रभृतयः । यदि ते प्राप्तसम्यग्दर्शनाः, ततः लोक-
संग्रहार्थेथं प्रारब्धकर्मत्वात् कर्मणा सहैव असंन्यस्यैव कर्म
संसिद्धिमास्थिता इत्यर्थः । अथ अप्राप्तसम्यग्दर्शनाः जनका-
दय:यः, तदा कर्मणा सत्त्वशुद्धिसाधनभूतेन क्रमेण संसिद्धि-
मास्थिता इति व्याख्येयः श्लोकः । अथ मन्यसे पूर्वैरपि
जनकादिभिः अजानद्भिरेव कर्तव्यं कर्म कृतम् ; तावता
नावश्यमन्येन कर्तव्यं सम्यग्दर्शनवता कृतार्थेनेति ; तथापि
प्रारब्धकर्मायत्तः त्वं लोकसंग्रहम् एव अपि लोकस्य उन्मार्ग-
प्रवृत्तिनिवारणं लोकसंग्रहः, तमेवापि प्रयोजनं संपश्यन्
कर्तुम् अर्हसि ॥
</p>
<p>लोकसंग्रहः किमर्थं कर्तव्य इत्युच्यते-
—</p>
<verse>यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः ।
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥ २१ ॥
</verse>
<p>यद्यत् कर्म आचरति करोति श्रेष्ठः प्रधानः तत्तदेव कर्म
आचरति इतरः अन्यः जनः तदनुगतः । किंच सः श्रेष्ठः यत्
प्रमाणं कुरुते लौकिकं वैदिकं वा लोकः तत् अनुवर्तते तदेव
प्रमाणीकरोति इत्यर्थः ॥
</p>
<p>यदि अत्र ते लोकसंग्रहकर्तव्यतायां विप्रतिपत्तिः तर्हि मां
किं न पश्यसि ?-
—</p>
</page>
<ignore>तृतीयोऽध्यायः ।
<p>श्वपतिप्रभृतयः । यदि ते प्राप्तसम्यग्दर्शनाः, ततः लोक-
संग्रहार्
संसिद्धिमास्थिता इत्यर्थः । अथ अप्राप्तसम्यग्दर्शनाः जनका-
द
मास्थिता इति व्याख्येयः श्लोकः । अथ मन्यसे पूर्वैरपि
जनकादिभिः अजानद्भिरेव कर्तव्यं कर्म कृतम् ; तावता
नावश्यमन्येन कर्तव्यं सम्यग्दर्शनवता कृतार्थेनेति ; तथापि
प्रारब्धकर्मायत्तः त्वं लोकसंग्रहम् एव अपि लोकस्य उन्मार्ग-
प्रवृत्तिनिवारणं लोकसंग्रहः, तमेवापि प्रयोजनं संपश्यन्
कर्तुम् अर्हसि ॥
<p>लोकसंग्रहः किमर्थं कर्तव्य इत्युच्यते

किं न पश्यसि ?
</page>