2026-05-03 20:42:50 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>९४
श्रीमद्भगवद्गीताभाप्ष्ये
</ignore>

ब्रह्मादिस्थावरान्तेषु भूतेषु कश्चित् अर्थव्यपाश्रयः प्रयोजन-
निमित्तक्रियासाध्यः व्यपाश्रयः व्यपाश्रयणम् आलम्बनं कं-
चित् भूतविशेषमाश्रित्य न साध्यः कश्चिदर्थः अस्ति, येन
तदर्था क्रिया अनुष्ठेया स्यात् । न त्वम् एतस्मिन् सर्वत :तः-
संप्लुतोदकस्थानीये सम्यग्दर्शने वर्तसे ॥

यतः एवम् —

<verse>तस्मादसक्तः सततं कार्ययं कर्म समाचर ।
असक्तो ह्याचरन्कर्म परमाप्नोति पूरुषः ॥ १९ ॥
</verse>

तस्मात् असक्तः सङ्गवर्जितः सततं सर्वदा कार्ययं कर्तव्यं
नित्यं कर्म समाचर निर्वर्तय । असक्तो हि यस्मात् समा-
चरनन् ईश्वरार्थं कर्म कुर्वन् परं मोक्षम् आप्नोति पूरुषः
सत्त्वशुद्धिद्वारेण इत्यर्थः ॥

यस्माच्च-

<verse>कर्मणैव हि संसिद्धिमास्थिता जनकादयः ।
लोकसंग्रहमेवापि संपश्यन्कर्तुमर्हसि ॥ २० ॥
</verse>

कर्मणैव हि यस्मात् पूर्वे क्षत्रियाः विद्वांसः संसिद्धिं
मोक्षं गन्तुम् आस्थिताः प्रवृत्ताः । के ? जनकादयः जनका-

</page>
<ignore>९४

ब्रह्मादिस्थावरान्तेषु भूतेषु कश्चित् अर्थव्यपाश्रयः प्रयोजन-
निमित्तक्रियासाध्यः व्यपाश्रयः व्यपाश्रयणम् आलम्बनं कं-
चित् भूतविशेषमाश्रित्य न साध्यः कश्चिदर्थः अस्ति, येन
तदर्था क्रिया अनुष्ठेया स्यात् । न त्वम् एतस्मिन् सर्व
संप्लुतोदकस्थानीये सम्यग्दर्शने वर्तसे ॥

यतः एवम् —
<verse>तस्मादसक्तः सततं कार्
असक्तो ह्याचरन्कर्म परमाप्नोति पूरुषः ॥ १९ ॥

तस्मात् असक्तः सङ्गवर्जितः सततं सर्वदा कार्
नित्यं कर्म समाचर निर्वर्तय । असक्तो हि यस्मात् समा-
चर
सत्त्वशुद्धिद्वारेण इत्यर्थः ॥

यस्माच्च