2026-05-03 20:44:55 by akprasad
This page has been fully proofread once and needs a second look.
<ignore>तृतीयोऽध्यायः ।
<p>कार्यमस्ति
माविष्कुर्वन् आह भगवान्
<verse>यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः ।
आत्मन्येव च संतुष्टस्तस्य कार्
<p>यस्तु सांख्यः आत्मज्ञाननिष्ठः आत्मरतिः आत्मन्येव
रतिः न विषयेषु यस्य सः आत्मरतिरेव स्यात् भवेत् आ-
त्मतृप्तश्च आत्मनैव तृप्तः न अन्नरसादिना सः मानवः
मनुष्यः संन्यासी आत्मन्येव च संतुष्टः । संतोषो हि बाह्या-
र्थलाभे सर्वस्य भवति, तमनपेक्ष्य आत्मन्येव च संतुष्टः
सर्वतो वीततृष्ण इत्येतत् । यः ईदृशः आत्मवित् तस्य कार्
करणीयं न विद्यते नास्ति इत्यर्थः ॥
<p>किंच
<verse>नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन ।
न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः ॥ १८ ॥
<p merge-next="true">नैव तस्य परमात्मरतेः कृतेन कर्मणा अर्थः प्रयोजनमस्ति ।
अस्तु तर्हि अकृतेन अकरणेन प्रत्यवायाख्यः अनर्थः, न
अकृतेन इह लोके कश्चन कश्चिदपि प्रत्यवायप्राप्तिरू
त्महानिलक्षणो वा नैव अस्ति । न च अस्य सर्वभूतेषु
</page>