Proofing

This page has not been fully proofread.

'तृतीयोऽध्यायः ।
 
९३
 
कार्यमस्ति' इत्येवं श्रुत्यर्थमिह गीताशास्त्रे प्रतिपिपादयिषित-
 
माविष्कुर्वन् आह भगवान् -
 
यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः ।
आत्मन्येव च संतुष्टस्तस्य कार्य न विद्यते ॥
 
यस्तु सांख्यः आत्मज्ञाननिष्ठः आत्मरतिः आत्मन्येव
रतिः न विषयेषु यस्य सः आत्मरतिरेव स्यात् भवेत् आ-
त्मतृप्तश्च आत्मनैव तृप्तः न अन्नरसादिना सः मानवः
मनुष्यः संन्यासी आत्मन्येव च संतुष्टः । संतोषो हि बाह्या-
र्थलाभे सर्वस्य भवति, तमनपेक्ष्य आत्मन्येव च संतुष्टः
सर्वतो वीततृष्ण इत्येतत् । यः ईदृशः आत्मवित् तस्य कार्य
करणीयं न विद्यते नास्ति इत्यर्थः ॥
 
किंच-
 
नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन ।
न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः ॥ १८ ॥
 
नैव तस्य परमात्मरतेः कृतेन कर्मणा अर्थः प्रयोजनमस्ति ।
अस्तु तर्हि अकृतेन अकरणेन प्रत्यवायाख्यः अनर्थः, न
अकृतेन इह लोके कश्चन कश्चिदपि प्रत्यवायप्राप्तिरूप: आ-
त्महानिलक्षणो वा नैव अस्ति । न च अस्य सर्वभूतेषु