Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
तृतीयोऽध्यायः ।
 
९१
 
</ignore>
<p>
ऋत्विग्यजमानयोश्च व्यापारः कर्म, तत् समुद्भवः यस्य

यज्ञस्य अपूर्वस्य स यज्ञः कर्मसमुद्भवः ॥
 
</p>
<p>तच्
चैवंविधं कर्म कुतो जातमित्याह-
 
—</p>
<verse>
कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् ।

तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥
 
<fix> १५ ॥</fix></verse>
<p>
कर्म ब्रह्मोद्भवं ब्रह्म वेदः सः उद्भवः कारणं प्रकाशको

यस्य तत् कर्म ब्रह्मोद्भवं विद्धि विजानीहि । ब्रह्म पुन:
नः
वेदाख्यम् अक्षरसमुद्भवम् अक्षरं ब्रह्म परमात्मा समुद्भवो

यस्य तत् अक्षरंसमुद्भवंम् । ब्रह्म वेद इत्यर्थः । यस्मात्

साक्षात् परमात्माख्यात् अक्षरात् पुरुषनिःश्वासवत् समुद्भूतं

ब्रह्म तस्मात् सर्वार्थप्रकाशकत्वात् सर्वगतम् ; सर्वगतमपि

सत् नित्यं सदा यज्ञविधिप्रधानत्वात् यज्ञे प्रतिष्ठितम् ॥
 
</p>
<verse>
एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः ।

अघायुरिन्द्रियारामो मोघं पार्थ स जीवति ॥
 
<fix> १६ ॥</fix></verse>
<p merge-next="true">
एवम् इत्थम् ईश्वरेण वेदयज्ञपूर्वकं जगच्चक्रं प्रवर्तितं न

अनुवर्तयति इह लोके यः कर्मणि अधिकृतः सन् अघायुः

अघं पापम् आयुः जीवनं यस्य सः अघायुः;, पापजीवन:
 
नः</p>
</page>