2026-05-03 04:19:52 by ambuda-bot
This page has not been fully proofread.
तृतीयोऽध्यायः ।
९१
ऋत्विग्यजमानयोश्च व्यापारः कर्म, तत् समुद्भवः यस्य
यज्ञस्य अपूर्वस्य स यज्ञः कर्मसमुद्भवः ॥
तचैवंविधं कर्म कुतो जातमित्याह-
कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् ।
तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥
कर्म ब्रह्मोद्भवं ब्रह्म वेदः सः उद्भवः कारणं प्रकाशको
यस्य तत् कर्म ब्रह्मोद्भवं विद्धि विजानीहि । ब्रह्म पुन:
वेदाख्यम् अक्षरसमुद्भवम् अक्षरं ब्रह्म परमात्मा समुद्भवो
यस्य तत् अक्षरंसमुद्भवंम् । ब्रह्म वेद इत्यर्थः । यस्मात्
साक्षात् परमात्माख्यात् अक्षरात् पुरुषनिःश्वासवत् समुद्भूतं
ब्रह्म तस्मात् सर्वार्थप्रकाशकत्वात् सर्वगतम् ; सर्वगतमपि
सत् नित्यं सदा यज्ञविधिप्रधानत्वात् यज्ञे प्रतिष्ठितम् ॥
एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः ।
अघायुरिन्द्रियारामो मोघं पार्थ स जीवति ॥
एवम् इत्थम् ईश्वरेण वेदयज्ञपूर्वकं जगचक्रं प्रवर्तितं न
अनुवर्तयति इह लोके यः कर्मणि अधिकृतः सन् अघायुः
अघं पापम् आयुः जीवनं यस्य सः अघायुः; पापजीवन: