2026-05-03 20:53:52 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>९०
श्रीमद्भगवद्गीताभाष्ये
</ignore>
<verse>यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः ।
भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारर्णात् ॥
<fix> १३ ॥</fix></verse>
<p>देवयज्ञादीन् निर्वर्त्य तच्छिष्टम् अशनम् अमृताख्यम्
अशितुं शीलं येषां ते यज्ञशिष्टाशिनः सन्तः मुच्यन्ते सर्व-
किल्बिषैः सर्वपापैः चुल्ल्यादिपश्वञ्चसूनाकृतैः प्रमादकृतहिंसा-
दिजनितैश्च अन्यैः । ये तु आत्मंभरयः, भुञ्जते ते तु अघं
पापं स्वयमपि पापा: -पाः — ये पचन्ति पाकं निर्वर्तयन्ति आत्म-
कारणात् आत्महेतोः ॥
</p>
<p>इतश्च अधिकृतेन कर्म कर्तव्यम् जगच्चक्रप्रवृत्तिहेतुर्हि
कर्म । कथमिति उच्यते-
—</p>
<verse>अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसंभवः ।
यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः ॥ १४ ॥
</verse>
<p merge-next="true">अन्नात् भुक्तात् लोहितरेतः परिणतात् प्रत्यक्षं भवन्ति
'
जायन्ते भूतानि । पर्जन्यात् वृष्टेः अन्नस्य संभवः अन्न-
संभवः । यज्ञात् भवति पर्जन्यः,''अग्नौ प्रास्ताहुति:तिः सम्य-
गादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः '
'
इति स्मृतेः । यज्ञः अपूर्वम् । स च यज्ञः कर्मसमुद्भवः
</p>
</page>
<ignore>९०
<verse>यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः ।
भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकार
<p>देवयज्ञादीन् निर्वर्त्य तच्छिष्टम् अशनम् अमृताख्यम्
अशितुं शीलं येषां ते यज्ञशिष्टाशिनः सन्तः मुच्यन्ते सर्व-
किल्बिषैः सर्वपापैः चुल्ल्यादिप
दिजनितैश्च अन्यैः । ये तु आत्मंभरयः, भुञ्जते ते तु अघं
पापं स्वयमपि पा
कारणात् आत्महेतोः ॥
<p>इतश्च अधिकृतेन कर्म कर्तव्यम् जगच्चक्रप्रवृत्तिहेतुर्हि
कर्म । कथमिति उच्यते
<verse>अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसंभवः ।
यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः ॥ १४ ॥
<p merge-next="true">अन्नात् भुक्तात् लोहितरेतः
'
जायन्ते भूतानि । पर्जन्यात् वृष्टेः अन्नस्य संभवः अन्न-
संभवः । यज्ञात् भवति पर्जन्यः,
गादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः
इति स्मृतेः । यज्ञः अपूर्वम् । स च यज्ञः कर्मसमुद्भवः
</page>