Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
तृतीयोऽध्यायः ।

८९

</ignore>

कथम् —

<verse>
देवान्भावयतानेन ते देवा भावयन्तु वः ।

परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ॥ ११ ॥

</verse>

देवान् इन्द्रादीन् भावयत वर्धयत अनेन यज्ञेन । ते

देवा भावयन्तु आप्याययन्तु वृष्ट्यादिना वः युष्मान् । एवं

परस्परम् अन्योन्यं भावयन्तः श्रेयः परं मोक्षलक्षणं ज्ञान-

प्राप्तिक्रमेण अवाप्स्यथ । स्वर्गं वा परं श्रेयः अवाप्स्यथं

किंच

<verse>
इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः । . .

तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः ॥ १२

</verse>

इष्टान् अभिप्रेतान् भोगान् हि वः युष्मभ्यं देवाः दास्यन्ते

वितरिष्यन्ति स्त्रीपशुपुत्रादीन् यज्ञभाविताः यज्ञैः वर्धिता:
ताः
तोषिताः इत्यर्थः । तैः देवैः दत्तान् भोगान् अप्रदाय

अदन्त्त्वा, "आनृण्यमकृत्वा - इत्यर्थः, एभ्यः देवेभ्यः, यः भुङ्क्ते

स्वदेहेन्द्रियाण्येव तर्पयति स्तेन एव तस्कर एव सः देवादि-

स्वापहारी ॥

ये पुन:-

नः —

</page>