Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
८८
 
श्रीमद्भगवद्गीताभाष्ये
 
</ignore>
<verse>
यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः ।

तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर ॥ ९ ॥
 
'
</verse>
<p>&apos;
यज्ञो वै विष्णुः'&apos; इति श्रुतेः यज्ञः ईश्वरः, तदर्थे यत्
थं यत्
क्रियते तत् यज्ञार्थं कर्म । तस्मात् कर्मणः अन्यत्र अन्येन

कर्मणा लोकः अयम् अधिकृतः कर्मकृत् कर्मबन्धनः कर्म

बन्धनं यस्य सोऽयं कर्मबन्धनः लोकः, न तु यज्ञार्थात् ।

अतः तदर्थं यज्ञार्थं कर्म कौन्तेय, मुक्तसङ्गः कर्मफलसङ्ग-

वर्जितः सन् समाचर निर्वर्तय ॥
 
</p>
<p>
इतश्च अधिकृतेन कर्म कर्तव्यम् -
 
—</p>
<verse>
सहयज्ञाः प्रजाः सृष्ट्रावा पुरोवाच प्रजापतिः ।

अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् ॥
 
<fix> १० ॥</fix></verse>
<p>
सहयज्ञा:ञाः यज्ञसहिताः प्रजाः त्रयो वर्णाः ताः सृष्ट्वा

उत्पाद्य पुरा पूर्वं सर्गादौ उवाच उक्तवान् प्रजापतिः प्रजानां

स्रष्टा अनेन यज्ञेन प्रसविष्यध्वं प्रसवः वृद्धिः उत्पत्तिः तं
 
.
 

कुरुध्वम् । एष यज्ञः वः युष्माकम् अस्तु भवतु इष्टकामधुक्

इष्टान् अभिप्रेतान् कामान् फलविशेषान् दोग्धीति इष्ट-

कामधुक् ॥
 
</p>
</page>