2026-05-03 04:19:51 by ambuda-bot
This page has not been fully proofread.
८८
श्रीमद्भगवद्गीताभाष्ये
यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः ।
तदर्थ कर्म कौन्तेय मुक्तसङ्गः समाचर ॥ ९ ॥
'यज्ञो वै विष्णुः' इति श्रुतेः यज्ञः ईश्वरः, तदर्थे यत्
क्रियते तत् यज्ञार्थं कर्म । तस्मात् कर्मणः अन्यत्र अन्येन
कर्मणा लोकः अयम् अधिकृतः कर्मकृत् कर्मबन्धनः कर्म
बन्धनं यस्य सोऽयं कर्मबन्धनः लोकः, न तु यज्ञार्थात् ।
अतः तदर्थं यज्ञार्थं कर्म कौन्तेय, मुक्तसङ्गः कर्मफलसङ्ग-
वर्जितः सन् समाचर निर्वर्तय ॥
इतश्च अधिकृतेन कर्म कर्तव्यम् -
सहयज्ञाः प्रजाः सृष्ट्रा पुरोवाच प्रजापतिः ।
अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् ॥
सहयज्ञा: यज्ञसहिताः प्रजाः त्रयो वर्णाः ताः सृष्ट्वा
उत्पाद्य पुरा पूर्व सर्गादौ उवाच उक्तवान् प्रजापतिः प्रजानां
स्रष्टा अनेन यज्ञेन प्रसविष्यध्वं प्रसवः वृद्धिः उत्पत्तिः तं
.
कुरुध्वम् । एष यज्ञः वः युष्माकम् अस्तु भवतु इष्टकामधुक्
इष्टान् अभिप्रेतान् कामान् फलविशेषान् दोग्धीति इष्ट-
कामधुक् ॥