2026-05-03 20:59:07 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>तृतीयोऽध्यायः ।
८७
</ignore>
<verse>यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन ।
कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते ॥ <error>६</error><fix>७</fix> ॥
</verse>
<p>यस्तु पुनः कर्मण्यधिकृत:तः अज्ञ:ञः बुद्धीन्द्रियाणि मनसा
नियम्य आरभते अर्जुन कर्मेन्द्रियैः वाक्पाण्यादिभिः ।
किमारभतेःते इत्याह- — कर्मयोगम् असक्तः सन् फलाभिसंधि-
-
वर्जितः सः विशिष्यते इतरस्मात् मिथ्याचारात् ॥
</p>
<p>यतः एवम् अत:-
तः —</p>
<verse>नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः ।
शरीरयात्रापि च ते न प्रसिध्येदकर्मणः ॥ ८ ॥
</verse>
<p>नियतं नित्यं शास्त्रोपदिष्टम् , यो यस्मिन् कर्मणि अधि-
कृतः फलाय च अश्रुतं तत् नियतं कर्म, तत् कुरु त्वं हे
अर्जुन, यतः कर्म ज्याय:यः अधिकतरं फलतः, हि यस्मात् अक-
र्मणः अकरणात् अनारम्भात् । कथम् ? शरीरयात्रा शरीर-
स्थितिः अपि च ते तव न प्रसिध्येत् प्रसिद्धिं न गच्छेत्
अकर्मणः अकरणात् । अतः दृष्टः कर्माकर्मणोर्विशेषो लोके ॥
.
</p>
<p merge-next="true">यच्च मन्यसे बन्धार्थत्वात् कर्म न कर्तव्यमिति तदप्य-
सत् । कथम् —
</p>
</page>
<ignore>तृतीयोऽध्यायः ।
<verse>यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन ।
कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते ॥ <error>६</error><fix>७</fix> ॥
<p>यस्तु पुनः कर्मण्यधिकृ
नियम्य आरभते अर्जुन कर्मेन्द्रियैः वाक्पाण्यादिभिः ।
किमारभ
वर्जितः सः विशिष्यते इतरस्मात् मिथ्याचारात् ॥
<p>यतः एवम् अ
<verse>नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः ।
शरीरयात्रापि च ते न प्रसिध्येदकर्मणः ॥ ८ ॥
<p>नियतं नित्यं शास्त्रोपदिष्टम् , यो यस्मिन् कर्मणि अधि-
कृतः फलाय च अश्रुतं तत् नियतं कर्म, तत् कुरु त्वं हे
अर्जुन, यतः कर्म ज्या