Proofing

This page has not been fully proofread.

तृतीयोऽध्यायः ।
 
८७
 
यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन ।
कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते ॥ ६॥
 
यस्तु पुनः कर्मण्यधिकृत: अज्ञ: बुद्धीन्द्रियाणि मनसा
नियम्य आरभते अर्जुन कर्मेन्द्रियैः वाक्पाण्यादिभिः ।
किमारभतेः इत्याह- कर्मयोगम् असक्तः सन् फलाभिसंधि-
वर्जितः सः विशिष्यते इतरस्मात् मिथ्याचारात् ॥
 
यतः एवम् अत:-
 
नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः ।
शरीरयात्रापि च ते न प्रसिध्येदकर्मणः ॥ ८ ॥
 
नियतं नित्यं शास्त्रोपदिष्टम्, यो यस्मिन् कर्मणि अधि-
कृतः फलाय च अश्रुतं तत् नियतं कर्म, तत् कुरु त्वं हे
अर्जुन, यतः कर्म ज्याय: अधिकतरं फलतः, हि यस्मात् अक-
र्मणः अकरणात् अनारम्भात् । कथम् ? शरीरयात्रा शरीर-
स्थितिः अपि च ते तव न प्रसिध्येत् प्रसिद्धिं न गच्छेत्
अकर्मणः अकरणात् । अतः दृष्टः कर्माकर्मणोर्विशेषो लोके ॥
 
.
 
यच्च मन्यसे बन्धार्थत्वात् कर्म न कर्तव्यमिति तदप्य-
सत् । कथम् —