Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
८६
 
श्रीमद्भगवद्गीताभाष्ये
 
</ignore>
<verse>
न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् ।

कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ॥ ५ ॥
 
</verse>
<p>
न हि यस्मात् क्षणमपि कालं जातु कदाचित् कश्चित्

तिष्ठति अकर्मकृत् सन् । कस्मात् ? कार्यते प्रवर्त्यते हि

यस्मात् अवश एव अस्वतन्त्र एव कर्म सर्वः प्राणी प्रकृतिजै:
जैः
प्रकृतितो जातैः सत्त्वरजस्तमोभिः गुणैः । अज्ञ इति

वाक्यशेषः, यतो वक्ष्यति '&apos;गुणैर्यो न विचाल्यते'&apos; इति ।

सांख्यानां पृथक्करणात् अज्ञानामेव हि कर्मयोगः, न ज्ञानि-

नाम् । ज्ञानिनां तु गुणैरचाल्यमानानां स्वतश्चलनाभावात्

कर्मयोगो नोपपद्यते । तथा च व्याख्यातम् ' &apos;वेदाविना-

शिनम्' इत्यत्र ॥
 
</p>
<verse>
यत्त्वनात्मज्ञः चोदितं कर्म नारभते इति तदसदेवेत्याह-
—</verse>
<p>
कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् ।

इन्द्रियार्थान्विमूढात्मा मिथ्याचारः स उच्यते ॥
 
<fix> ६ ॥</fix></p>
<p>
कर्मेन्द्रियाणि हस्तादीनि संयम्य संहृत्य यः आस्ते तिष्ठति

मनसा स्मरन् चिन्तयन् इन्द्रियार्थान् विषयान् विमूढाला
त्मा
विमूढान्तःकरणः मिथ्याचारो मृषाचारः पापाचारः सः

उच्यते ॥
 
</p>
</page>