Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
तृतीयोऽध्यायः ।
 
८५.
 
</ignore>
<p>
उच्यते, कर्मारम्भस्यैव नैष्कम्र्र्म्योपायत्वात् । न ह्युपायमन्तरेण

उपेयप्राप्तिरस्ति । कर्मयोगोपायत्वं च नैष्कर्म्यलक्षणस्य
 
"
 

ज्ञानयोगस्य, श्रुतौ इह च, प्रतिपादनात् । श्रुतौ तावत्

प्रकृतस्य आत्मलोकस्य वेद्यस्य वेदनोपायत्वेन ' तमेतं वेदा-

नुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन ' इत्यादिना कर्मयो-

गस्य ज्ञानयोगोपायत्वं प्रतिपादितम् । इहापि च-

संन्यासस्तु महाबाहो दुःखमाप्तुमयोगत: ' ' तः’ ‘योगिनः कर्म

कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये' '’ ‘यज्ञो दानं तपश्चैव पावनानि

मनीषिणाम्' इत्यादि प्रतिपादयिष्यति ॥
 
</p>
<p>
ननु च 'अभयं सर्वभूतेभ्यो दत्त्वा नैष्कर्म्यमाचरेत्' इत्या-

दौ कर्तव्यकर्मसंन्यासादपि नैष्कर्म्यप्राप्तिं दर्शयति । लोके च
कर्मणामनारम्भान्नैष्कर्म्यमिति प्रसिद्धतरम् । अतश्च नैष्कर्म्या-

र्थिनः किं कर्मारम्भेण ? इति प्राप्तम् । अत आह — न च

संन्यसनादेवेति । नापि संन्यसनादेव केवलात् कर्मपरित्याग-

मात्रादेव ज्ञानरहितात् सिद्धिं नैष्कर्म्यलक्षणां ज्ञानयोगेन

निष्ठां समधिगच्छति न प्राप्नोति ॥
 
</p>
<p>
कस्मात् पुनः कारणात् कर्मसंन्यासमात्रादेव केवलात्

ज्ञानरहितात् सिद्धिं नैष्कर्म्यलक्षणां पुरुषो नाधिगच्छति

इति हेत्वाकाङ्क्षायामाह -
 
—</p>
</page>