Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
८४
 
श्रीमद्भगवद्गीताभाष्ये
 
</ignore>
<p>
निष्ठयोः परस्परविरोधात् एकेन पुरुषेण युगपत् अनुष्ठातुम-

शक्यत्वे सति इतरेतरानपेक्षयोरेव पुरुषार्थहेतुत्वे प्राप्ते कर्म-

निष्ठाया ज्ञाननिष्ठाप्राप्तिहेतुत्वेन पुरुषार्थहेतुत्वम् , न स्वात-

न्त्र्येण ; ज्ञाननिष्ठा तु कर्मनिष्ठोपायलब्धात्मिका सती स्वात-

न्त्र्येण पुरुषार्थहेतुः अन्यानपेक्षा, इत्येतमर्थं प्रदर्शयिष्यन्

आह भगवान् -
 
—</p>
<verse>
न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते ।

न च संन्यसनादेव सिद्धिं समधिगच्छति ॥
 
<fix> ४ ॥</fix></verse>
<p>
न कर्मणां क्रियाणां यज्ञादीनाम् इह जन्मनि जन्मान्तरे

वा अनुष्ठितानाम् उपात्तदुरितक्षयहेतुत्वेन सत्त्वशुद्धिकार-

णानां तत्कारणत्वेन च ज्ञानोत्पत्तिद्वारेण ज्ञाननिष्ठाहेतूनाम् ,
'

ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः । यथादर्शतल-

प्रख्ये पश्यत्यात्मानमात्मनि ' इत्यादिस्मरणात् , अनारम्भात्

अननुष्ठानात् नैष्कर्म्यं निष्कर्मभावं कर्मशून्यतां ज्ञानयोगेन

निष्ठां निष्क्रियात्मस्वरूपेणैव अवस्थानमिति यावत् । पुरुषः

न अश्नुते न प्राप्नोतीत्यर्थः ॥
 
</p>
<p merge-next="true">
कर्मणामनारम्भान्नैष्कर्म्यं नाश्नुते इति वचनात् तद्विपर्य-

यात् तेषामारम्भात् नैष्कर्म्यमश्नुते इति गम्यते । कस्मात्

पुनः कारणात् कर्मणामनारम्भान्नैष्कर्म्यं नाश्नुते इति ?
 
</p>
</page>