Proofing

This page has not been fully proofread.

८४
 
श्रीमद्भगवद्गीताभाष्ये
 
निष्ठयोः परस्परविरोधात् एकेन पुरुषेण युगपत् अनुष्ठातुम-
शक्यत्वे सति इतरेतरानपेक्षयोरेव पुरुषार्थहेतुत्वे प्राप्ते कर्म-
निष्ठाया ज्ञाननिष्ठाप्राप्तिहेतुत्वेन पुरुषार्थहेतुत्वम्, न स्वात-
न्त्र्येण; ज्ञाननिष्ठा तु कर्मनिष्ठोपायलब्धात्मिका सती स्वात-
न्त्र्येण पुरुषार्थहेतुः अन्यानपेक्षा, इत्येतमर्थं प्रदर्शयिष्यन्
आह भगवान् -
 
न कर्मणामनारम्भान्नैष्कर्म्य पुरुषोऽश्नुते ।
न च संन्यसनादेव सिद्धिं समधिगच्छति ॥
 
न कर्मणां क्रियाणां यज्ञादीनाम् इह जन्मनि जन्मान्तरे
वा अनुष्ठितानाम् उपात्तदुरितक्षयहेतुत्वेन सत्त्वशुद्धिकार-
णानां तत्कारणत्वेन च ज्ञानोत्पत्तिद्वारेण ज्ञाननिष्ठाहेतूनाम्,
'ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः । यथादर्शतल-
प्रख्ये पश्यत्यात्मानमात्मनि ' इत्यादिस्मरणात्, अनारम्भात्
अननुष्ठानात् नैष्कर्म्य निष्कर्मभावं कर्मशून्यतां ज्ञानयोगेन
निष्ठां निष्क्रियात्मस्वरूपेणैव अवस्थानमिति यावत् । पुरुषः
न अश्नुते न प्राप्नोतीत्यर्थः ॥
 
कर्मणामनारम्भान्नैष्कर्म्यं नाश्नुते इति वचनात् तद्विपर्य-
यात् तेषामारम्भात् नैष्कर्म्यमश्नुते इति गम्यते । कस्मात्
पुनः कारणात् कर्मणामनारम्भान्नैष्कर्म्य नाश्नुते इति ?