Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
तृतीयोऽध्यायः ।
 
८३
 
</ignore>
<p>
विज्ञानसुनिश्चितार्थानां परमहंसपरिव्राजकानां ब्रह्मण्येव अव-

स्थितानां निष्ठा प्रोक्ता । कर्मयोगेन कर्मैव योगः कर्मयोगः

तेन कर्मयोगेन योगिनां कर्मिणां निष्ठा प्रोक्तांता इत्यर्थः । यदि

च एकेन पुरुषेण एकस्मै पुरुषार्थाय ज्ञानं कर्म च समुच्चित्य

अनुष्ठेयं भगवता इष्टम् उक्तं वक्ष्यमाणं वा गीतासु वेदेषु

चोक्तम् , कथमिह अर्जुनाय उपसन्नाय प्रियाय विशिष्टभिन्न-

पुरुषकर्तृके एव ज्ञानकर्मनिष्ठे ब्रूयात् ? यदि पुनः 'अर्जुन:
नः
ज्ञानं कर्म च द्वयं श्रुत्वा स्वयमेवानुष्ठास्यति अन्येषां तु भि-

न्न
पुरुषानुष्ठेयतां वक्ष्यामि इति' मतं भगवतः कल्प्येत, तदा

रागद्वेषवान् अप्रमाणभूतो भगवान् कल्पितः स्यात् ।

तच्चायुक्तम् । तस्मात् कयापि युक्त्या न समुच्चयो ज्ञान-

कर्मणोः ॥
 
</p>
<p>
यत् अर्जुनेन उक्तं कर्मणो ज्यायस्त्वं बुद्धेः, तच्च स्थितम् ,

अनिराकरणात् । तस्याश्च ज्ञाननिष्ठायाः संन्यासिनामेवानुष्ठे-

यत्वम् , भिन्नपुरुषानुष्ठेयत्ववचनात् । भगवतः एवमेव अनु-

मतमिति गम्यते ॥
 
'
</p>
<p merge-next="true">‘
मां च बन्धकारणे कर्मण्येव नियोजयसि' इति विषण्ण-

मनसमर्जुनम् ' कर्म नारभे' इत्येवं मन्वानमालक्ष्य आह भग-

वान् — न कर्मणामनारम्भात् इति । अथपा -वा — ज्ञानकर्म-
 
</p>
</page>