2026-05-03 21:19:11 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>८२
श्रीमद्भगवद्गीताभाष्ये
</ignore>

अन्यतरेण श्रेयः अहम् आप्नुयां प्राप्नुयाम् ; इति यदुक्तं
तदपि नोपपद्यते ॥

यदि हि कर्मनिष्ठायां गुणभूतमपि ज्ञानं भगवता उक्तं
स्यात् , तत् कथं तयोः'‘एकं वद'’ इति एकविषयैव अर्जु-
नस्य शुश्रूषा स्यात् । न हि भगवता पूर्वमुक्तम्' ‘अन्यतरदेव
ज्ञानकर्मणोः वक्ष्यामि, नैव द्वयम्'’ इति, येन उभयप्राप्त्यसं-
भवम् आत्मनो मन्यमानः एकमेव प्रार्थयेत् ॥

प्रश्नानुरूपमेव प्रतिवचनं श्रीभगवानुवाच —

श्रीभगवानुवाच-

<verse>लोकेऽस्मिन्द्विविधा निष्ठा पुरा प्रोक्ता मयानघ ।
ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनाम् ॥
<fix> ३ ॥</fix></verse>

लोके अस्मिन् शास्त्रार्थानुष्ठानाधिकृतानां त्रैवर्णिकानां
द्विविधा द्विप्रकारा निष्ठा स्थिति:तिः अनुष्ठेयतात्पर्ययं पुरा पूर्वे
वं
सर्गादौ प्रजाः सृष्ट्वा तासाम् अभ्युदयनिःश्रेय<error>सं</error><fix>स</fix>प्राप्तिसाधनं
वेदार्थसंप्रदायमाविष्कुर्वता प्रोक्ता मया सर्वज्ञेन ईश्वरेण हे
अनघ अपाप । तत्र का सा द्विविधा निष्ठा इत्याह- तत्र
— तत्र
ज्ञानयोगेन ज्ञानमेव योगः तेन सांख्यानाम्अ<error>अ</error><fix>आ</fix>त्मानात्मविष-
यविवेकविज्ञानवतां ब्रह्मचर्याश्रमादेव कृतसंन्यासानां वेदान्त-

</page>
<ignore>८२

अन्यतरेण श्रेयः अहम् आप्नुयां प्राप्नुयाम् ; इति यदुक्तं
तदपि नोपपद्यते ॥

यदि हि कर्मनिष्ठायां गुणभूतमपि ज्ञानं भगवता उक्तं
स्यात् , तत् कथं तयोः
नस्य शुश्रूषा स्यात् । न हि भगवता पूर्वमुक्तम्
ज्ञानकर्मणोः वक्ष्यामि, नैव द्वयम्
भवम् आत्मनो मन्यमानः एकमेव प्रार्थयेत् ॥

प्रश्नानुरूपमेव प्रतिवचनं श्रीभगवानुवाच —

श्रीभगवानुवाच
<verse>लोकेऽस्मिन्द्विविधा निष्ठा पुरा प्रोक्ता मयानघ ।
ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनाम् ॥

लोके अस्मिन् शास्त्रार्थानुष्ठानाधिकृतानां त्रैवर्णिकानां
द्विविधा द्विप्रकारा निष्ठा स्थि
सर्गादौ प्रजाः सृष्ट्वा तासाम् अभ्युदयनिःश्रेय<error>सं</error><fix>स</fix>प्राप्तिसाधनं
वेदार्थसंप्रदायमाविष्कुर्वता प्रोक्ता मया सर्वज्ञेन ईश्वरेण हे
अनघ अपाप । तत्र का सा द्विविधा निष्ठा इत्याह
ज्ञानयोगेन ज्ञानमेव योगः तेन सांख्यानाम्
यविवेकविज्ञानवतां ब्रह्मचर्याश्रमादेव कृतसंन्यासानां वेदान्त-
</page>