Proofing

This page has not been fully proofread.

८२
 
श्रीमद्भगवद्गीताभाष्ये
 
अन्यतरेण श्रेयः अहम् आप्नुयां प्राप्नुयाम्; इति यदुक्तं
तदपि नोपपद्यते ॥
 
यदि हि कर्मनिष्ठायां गुणभूतमपि ज्ञानं भगवता उक्तं
स्यात्, तत् कथं तयोः 'एकं वद' इति एकविषयैव अर्जु-
नस्य शुश्रूषा स्यात् । न हि भगवता पूर्वमुक्तम् ' अन्यतरदेव
ज्ञानकर्मणोः वक्ष्यामि, नैव द्वयम्' इति, येन उभयप्राप्त्यसं-
भवम् आत्मनो मन्यमानः एकमेव प्रार्थयेत् ॥
 
प्रश्नानुरूपमेव प्रतिवचनं श्रीभगवानुवाच —
 
श्रीभगवानुवाच-
 
लोकेऽस्मिन्द्विविधा निष्ठा पुरा प्रोक्ता मयानघ ।
ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनाम् ॥
 
लोके अस्मिन् शास्त्रार्थानुष्ठानाधिकृतानां त्रैवर्णिकानां
द्विविधा द्विप्रकारा निष्ठा स्थिति: अनुष्ठेयतात्पर्य पुरा पूर्वे
सर्गादौ प्रजाः सृष्ट्वा तासाम् अभ्युदयनिःश्रेयसंप्राप्तिसाधनं
वेदार्थसंप्रदायमाविष्कुर्वता प्रोक्ता मया सर्वज्ञेन ईश्वरेण हे
अनघ अपाप । तत्र का सा द्विविधा निष्ठा इत्याह- तत्र
ज्ञानयोगेन ज्ञानमेव योगः तेन सांख्यानाम् अत्मानात्मविष-
यविवेकविज्ञानवतां ब्रह्मचर्याश्रमादेव कृतसंन्यासानां वेदान्त-