Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
तृतीयोऽध्यायः ।
 
८१
 
</ignore>
<p>
अर्जुनेन कृतं स्यात् ; न हि तदेव तस्मात् फलतो ऽतिरिक्तं

स्यात् । तथा च, कर्मणः श्रेयस्करी भगवतोक्ता बुद्धि:,
धिः,
अश्रेयस्करं च कर्म कुर्विति मां प्रतिपादयति, तत् किं नु

कारणमिति भगवत उपालम्भमिव कुर्वन् तत् किं कस्मात्

कर्मणि घोरे क्रूरे हिंसालक्षणे मां नियोजयसि केशव इति च

यदाह, तच्च नोपपद्यते । अथ स्मार्तेनैव कर्मणा समुच्चयः

सर्वेषां भगवता उक्तः अर्जुनेन च अवधारितश्चेत्, ' , ‘तत्किं

कर्मणि घोरे मां नियोजयसि' इत्यादि कथं युक्तं वचनम् ॥
 
</p>
<p>
किंच-
 
—</p>
<verse>
व्यामिश्रेणेव वाक्येन वुबुद्धिं मोहयसीव मे ।

तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् ॥
 
</verse>
<p>
व्यामिश्रेणेव, यद्यपि विविक्ताभिधायी भगवान् , तथापि

मम मन्दबुद्धेः व्यामिश्रमिव भगवद्वाक्यं प्रतिभाति । तेन

मम बुद्धिं मोहयसि इव, मम बुद्धिव्यामोहापनयाय हि

प्रवृत्तः त्वं तु कथं मोहयसि ? अतः ब्रवीमि बुद्धिं मोहयसि

इव मेंमे मम इति । त्वं तु भिन्नकर्तृकयोः ज्ञानकर्मणोः

एकपुरुषानुष्ठानासंभवं यदि मन्यसे, तत्रैवं सति तत् तयोः

एकं बुद्धिं कर्म वा इदमेव अर्जुनस्य योग्यं बुद्धिशक्त्यव -

स्थानुरूपमिति निश्चित्य वद ब्रूहि, येन ज्ञानेन कर्मणा वा
 
</p>
<ignore>
S. B. 6
 
</ignore>
</page>