2026-05-03 21:22:40 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>८०
श्रीमद्भगवद्गीताभाष्ये
C
</ignore>
<p>स्यात् , ततोऽयं प्रश्न उपपन्नः' ‘ज्यायसी चेत्'’ इत्यादिः ।
अविवेकतः प्रश्नकल्पनायामपि भिन्नपुरुषानुष्ठेयत्वेन ज्ञान-
कर्मनिष्ठयोः भगवतः प्रतिवचनं नोपपद्यते । न च अज्ञान-
निमित्तं भगवत्प्रतिवचनं कल्पनीयम् । अस्माच्च भिन्नपुरुषा-
नुष्ठेयत्वेन ज्ञानकर्मनिष्ठयोः भगवतः प्रतिवचनदर्शनात्
ज्ञानकर्मणोः समुच्चयानुपपत्तिः । तस्मात् केवलादेव ज्ञानात्
मोक्ष इत्येषोऽर्थो निश्चितो गीतासु सर्वोपनिषत्सु च ॥
।
</p>
<p>ज्ञानकर्मणोः'‘एकं वद निश्चित्य'’ इति च एकविषयैव
प्रार्थना अनुपपन्ना, उभयोः समुच्चयसंभवे ।'‘कुरु कर्मैव
तस्मात्त्वम्'’ इति चंच ज्ञाननिष्ठासंभवम् अर्जुनस्य अवधारणेन
दर्शयिष्यति ॥
</p>
<verse>अर्जुन उवाच-
—
ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन ।
तत्किं कर्मणि घोरे मां नियोजयसि केशव ॥ १ ॥
</verse>
<p merge-next="true">ज्यायसी श्रेयसी चेत् यदि कर्मणः सकाशात् ते तवं
व
मता अभिप्रेता बुद्धिः ज्ञानं हे जनार्दन । यदि बुद्धिकर्मणी
समुच्चिते इष्टे तदा एकं श्रेयः साधनमिति कर्मणो ज्या-
यसी बुद्धिः इति कर्मणः अतिरिक्तकरणं बुद्धेरनुपपन्नम्ं
म्</p>
</page>
<ignore>८०
C
<p>स्यात् , ततोऽयं प्रश्न उपपन्नः
अविवेकतः प्रश्नकल्पनायामपि भिन्नपुरुषानुष्ठेयत्वेन ज्ञान-
कर्मनिष्ठयोः भगवतः प्रतिवचनं नोपपद्यते । न च अज्ञान-
निमित्तं भगवत्प्रतिवचनं कल्पनीयम् । अस्माच्च भिन्नपुरुषा-
नुष्ठेयत्वेन ज्ञानकर्मनिष्ठयोः भगवतः प्रतिवचनदर्शनात्
ज्ञानकर्मणोः समुच्चयानुपपत्तिः । तस्मात् केवलादेव ज्ञानात्
मोक्ष इत्येषोऽर्थो निश्चितो गीतासु सर्वोपनिषत्सु च ॥
।
<p>ज्ञानकर्मणोः
प्रार्थना अनुपपन्ना, उभयोः समुच्चयसंभवे ।
तस्मात्त्वम्
दर्शयिष्यति ॥
<verse>अर्जुन उवाच
ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन ।
तत्किं कर्मणि घोरे मां नियोजयसि केशव ॥ १ ॥
<p merge-next="true">ज्यायसी श्रेयसी चेत् यदि कर्मणः सकाशात् ते त
मता अभिप्रेता बुद्धिः ज्ञानं हे जनार्दन । यदि बुद्धिकर्मणी
समुच्चिते इष्टे तदा एकं श्रेयः
यसी बुद्धिः इति कर्मणः अतिरिक्तकरणं बुद्धेरनुपपन्न
</page>