Proofing

This page has not been fully proofread.

णयोः
 
तृतीयोऽध्यायः ।
 
५९
 
सज्जायेत' इति असत: सज्जन्मासंभवश्रुतेः । यदि विहिता-
करणात् असंभाव्यमपि प्रत्यवायं ब्रूयात् वेदः, तदा अनर्थ-
करः वेदः अप्रमाणमित्युक्तं स्यात्; विहितस्य करणाकर-
दुःखमात्रफलत्वात् । तथा च कारकं शास्त्रं न ज्ञाप-
कम् इत्यनुपपन्नार्थं कल्पितं स्यात् । न चैतदिष्टम् । तस्मात्
न संन्यासिनां कर्माणि । अतो ज्ञानकर्मणोः समुच्चयानुप-
पत्तिः ; ' ज्यायसी चेत् कर्मणस्ते मता बुद्धि:' इति अर्जु-
नस्य प्रश्नानुपपत्तेश्च ॥
 
यदि हि भगवता द्वितीयेऽध्याये ज्ञानं कर्म च समुच्चित्य
त्वया अनुष्ठेयम् इत्युक्तं स्यात्, ततः अर्जुनस्य प्रश्न: अनु-
पपन्नः 'ज्यायसी चेत्कर्मणस्ते मता बुद्धि:' इति । अर्जु-
नाय चेत् बुद्धिकर्मणी त्वया अनुष्ठेये इत्युक्ते, या कर्मणो
ज्यायसी बुद्धिः सापि उक्तैव इति ' तत् किं कर्मणि घोरे मां
नियोजयसि केशव' इति उपालम्भ: प्रश्नो वा न कथंचन
उपपद्यते । न च अर्जुनस्यैव ज्यायसी बुद्धिः न अनुष्ठेया
इति भगवता उक्तं पूर्वम् इति कल्पयितुं युक्तम्, येन 'ज्या-
यसी चेत्' इति विवेकतः प्रश्नः स्यात् ॥
 
:
 
यदि पुनः एकस्य पुरुषस्य ज्ञानकर्मणोर्विरोधात् युगपद-
नुष्ठानं न संभवतीति भिन्नपुरुषानुष्ठेयत्वं भगवता पूर्वमुक्तं