Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
७८
 
श्रीमद्भगवद्गीताभाष्ये
 
</ignore>
<p>
सिद्धस्तर्हि सर्वाश्रमिणां ज्ञानकर्मणोः समुच्चयः - न,

मुमुक्षोः सर्वकर्मसंन्यासविधानात् । 'पुत्रैषणाया वित्तैषणा -

याश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्ति' '’ ‘त-

स्मात् न्यासमेषां तपसामतिरिक्तमाहुः ’ ‘न्यास एवात्यरेच-
यत्'

यत्’
इति, 'न कर्मणा न प्रजया धनेन त्यागेनैके अमृत-

त्वमानशुः' इति च । ' ब्रह्मचर्यादेव प्रव्रजेत्' इत्याद्याः

श्रुतयः । ' त्यज धर्ममधर्मेमं च उभे सत्यानृते त्यज । उभे

सत्यानृते त्यक्त्वा येन त्यजसि तत्त्यज । ’ ‘संसारमेव निःसारं

दृष्ट्वा सारदिदृक्षया । प्रव्रजन्त्यकृतोद्वाहाः परं वैराग्यमा-

श्रिता: 'ताः’ इति बृहस्पतिः । ' कर्मणा बध्यते जन्तुर्विद्यया च
 

 

विमुच्यते । तस्मात्कर्म न कुर्वन्ति यतयः पारदर्शिन: 'नः’ इति
विमुच्यते । तस्मात्कर्म प

शुकानुशासनम् । इहापि च ' सर्वकर्माणि मनसा संन्यस्य'

इत्यादि ॥
 
</p>
<p merge-next="true">
मोक्षस्य च अकार्यत्वात् मुमुक्षोः कर्मानर्थक्यम् । नित्यानि

प्रत्यवायपरिहारार्थानि इति चेत् , न ; असंन्यासिविषयत्वात्

प्रत्यवायप्राप्तेः । न हि अग्निकार्याद्यकरणात् संन्यासिनः

प्रत्यवायः कल्पयितुं शक्यः, यथा ब्रह्मचारिणामसंन्यासिना-

मपि कर्मिणाम् । न तावत् नित्यानां कर्मणामभावादेव भाव-

रूपस्य प्रत्यवायस्य उत्पत्तिः कल्पयितुं शक्या, ' &apos;कथमसतः
 
</p>
</page>