2026-05-03 21:32:13 by akprasad
This page has been fully proofread once and needs a second look.
<ignore>तृतीयोऽध्यायः ।
<p>अथ मतं श्रौतकर्मापेक्षया एतद्वचनम्
श्रौतकर्मरहितात् गृहस्थानां मोक्षः प्रतिषिध्यते
गृहस्थानां विद्यमानमपि स्मार्
'
‘ज्ञानादेव केवलात्
कथम् ? गृहस्थस्यैव स्मार्तकर्मणा समुच्चितात् ज्ञानात् मोक्षः
प्रतिषिध्यते न तु आश्रमान्तराणामिति कथं विवेकिभिः
शक्यमवधारयितुम् । किंच
कर्माणि ऊर्ध्वरेतसां समुच्चीयन्ते तथा गृहस्थस्यापि इष्यतां
स्मार्तैरेव समुच्चयो न श्रौतैः ॥
<p>अथ श्रौतैः स्मार्तैश्च गृहस्थस्यैव समुच्चयः मोक्षाय, ऊर्ध्व-
रेतसां तु स्मार्तकर्ममात्रसमुच्चितात् ज्ञानात् मोक्ष इति ।
तत्रैवं सति गृहस्थस्य आयासबाहुल्यात् , श्रौतं स्मार्
बहुदुःखरूपं कर्म शिरसि आरोपितं स्यात् ॥
<p>अथ गृहस्थस्यैव आयासबाहुल्यकारणात् मोक्षः स्यात् ,
आश्रमान्तराणां श्रौतनित्यकर्मरहितत्वात् इति । तदप्यसत्
सर्वोपनिषत्सु इतिहासपुराणयोगशास्त्रेषु च ज्ञानाङ्गत्वेन
मुमुक्षोः सर्वकर्मसंन्यासविधानात् , आश्रमविकल्पसमु
धानाच्च श्रुतिस्मृत्योः ॥
</page>