Proofing

This page has been fully proofread once and needs a second look.

"
 
<page>
<ignore>
तृतीयोऽध्यायः ।
 
७७
 
</ignore>
<p>
अथ मतं श्रौतकर्मापेक्षया एतद्वचनम् 'केवलादेव ज्ञानात्

श्रौतकर्मरहितात् गृहस्थानां मोक्षः प्रतिषिध्यते ' इति ; तत्र

गृहस्थानां विद्यमानमपि स्मार्तं कर्म अविद्यमानवत् उपेक्ष्य
 
'

ज्ञानादेव केवलात्' इत्युच्यते ' इति । एतदपि विरुद्धम् ।

कथम् ? गृहस्थस्यैव स्मार्तकर्मणा समुच्चितात् ज्ञानात् मोक्षः-

प्रतिषिध्यते न तु आश्रमान्तराणामिति कथं विवेकिभिः

शक्यमवधारयितुम् । किंच - यदि मोक्षसाधनत्वेन स्मार्तानि

कर्माणि ऊर्ध्वरेतसां समुच्चीयन्ते तथा गृहस्थस्यापि इष्यतां

स्मार्तैरेव समुच्चयो न श्रौतैः ॥
 
</p>
<p>
अथ श्रौतैः स्मार्तैश्च गृहस्थस्यैव समुच्चयः मोक्षाय, ऊर्ध्व-

रेतसां तु स्मार्तकर्ममात्रसमुच्चितात् ज्ञानात् मोक्ष इति ।

तत्रैवं सति गृहस्थस्य आयासबाहुल्यात् , श्रौतं स्मार्त च.
तं च
बहुदुःखरूपं कर्म शिरसि आरोपितं स्यात् ॥
 
</p>
<p>
अथ गृहस्थस्यैव आयासबाहुल्यकारणात् मोक्षः स्यात् , नं

आश्रमान्तराणां श्रौतनित्यकर्मरहितत्वात् इति । तदप्यसत्
,
सर्वोपनिषत्सु इतिहासपुराणयोगशास्त्रेषु च ज्ञानाङ्गत्वेन

मुमुक्षोः सर्वकर्मसंन्यासविधानात् , आश्रमविकल्पसमुञ्च्चयवि-

धानाच्च श्रुतिस्मृत्योः ॥
 
</p>
</page>