2026-05-03 04:19:47 by ambuda-bot
This page has not been fully proofread.
"
तृतीयोऽध्यायः ।
७७
अथ मतं श्रौतकर्मापेक्षया एतद्वचनम् 'केवलादेव ज्ञानात्
श्रौतकर्मरहितात् गृहस्थानां मोक्षः प्रतिषिध्यते ' इति ; तत्र
गृहस्थानां विद्यमानमपि स्मार्त कर्म अविद्यमानवत् उपेक्ष्य
'ज्ञानादेव केवलात्' इत्युच्यते ' इति । एतदपि विरुद्धम् ।
कथम् ? गृहस्थस्यैव स्मार्तकर्मणा समुच्चितात् ज्ञानात् मोक्षः-
प्रतिषिध्यते न तु आश्रमान्तराणामिति कथं विवेकिभिः
शक्यमवधारयितुम् । किंच - यदि मोक्षसाधनत्वेन स्मार्तानि
कर्माणि ऊर्ध्वरेतसां समुच्चीयन्ते तथा गृहस्थस्यापि इष्यतां
स्मार्तैरेव समुच्चयो न श्रौतैः ॥
अथ श्रौतैः स्मार्तैश्च गृहस्थस्यैव समुच्चयः मोक्षाय, ऊर्ध्व-
रेतसां तु स्मार्तकर्ममात्रसमुच्चितात् ज्ञानात् मोक्ष इति ।
तत्रैवं सति गृहस्थस्य आयासबाहुल्यात्, श्रौतं स्मार्त च.
बहुदुःखरूपं कर्म शिरसि आरोपितं स्यात् ॥
अथ गृहस्थस्यैव आयासबाहुल्यकारणात् मोक्षः स्यात्, नं
आश्रमान्तराणां श्रौतनित्यकर्मरहितत्वात् इति । तदप्यसत्
सर्वोपनिषत्सु इतिहासपुराणयोगशास्त्रेषु च ज्ञानाङ्गत्वेन
मुमुक्षोः सर्वकर्मसंन्यासविधानात्, आश्रमविकल्पसमुञ्चयवि-
धानाच्च श्रुतिस्मृत्योः ॥