Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
७६
 
श्रीमद्भगवद्गीताभाष्ये
 
चेत्'
</ignore>
<p>
इत्यादिः, प्रश्नापाकरणवाक्यं च भगवतः युक्तं यथो-

क्तविभागविषये शास्त्रे ॥
 
</p>
<p>
केचित्तु — 'अर्जुनस्य प्रश्नार्थमन्यथा कल्पयित्वा तत्प्रति-

कूलं भगवतः प्रतिवचनं वर्णयन्ति, यथा च आत्मना संब-

न्धग्रन्थे गीतार्थो निरूपितः तत्प्रतिकूलं च इह पुनः प्रश्न
-
प्रतिवचनयोः अर्थं निरूपयन्ति । कथम् ? तत्र संसम्बन्धग्रन्थे

तावत् — सर्वेषामाश्रमिणां ज्ञानकर्मणोः समुच्चयः गीताशास्त्रे

निरूपितः अर्थः इत्युक्तम् ; पुनः विशेषितं च यावज्जीवश्रुति-

चोदितानि कर्माणि परित्यज्य केवलादेव ज्ञानात् मोक्षः

प्राप्यते इत्येतत् एकान्तेनैव प्रतिषिद्धमिति । इह तु आश्रम-

विकल्पं दर्शयता यावज्जीवश्रुतिचोदितानामेव कर्मणां परि-

त्याग उक्त:तः । तत् कथम् ईदृशं विरुद्धमर्थम् अर्जुनाय ब्रूयात्

भगवान् , श्रोता वा कथं विरुद्धमर्थमवधारयेत् ॥
 
"
 
</p>
<p>
तत्रैतत् स्यात् — गृहस्थानामेव श्रौतकर्मपरित्यागेन केवला-

देव ज्ञानात् मोक्षः प्रतिषिध्यते, न तु आश्रमान्तराणामिति ।

एतदपि पूर्वोत्तरंविरुद्धमेव । कथम् ? सर्वाश्रमिणां ज्ञानकर्म-

णोः समुच्चयो गीताशास्त्रे निश्चितः अर्थः इति प्रतिज्ञाय इह

कथं तद्विरुद्धं केवलादेव ज्ञानात् मोक्षं ब्रूयात् आश्रमा-

न्तराणाम् ॥
 
3
 
</p>
</page>