Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
द्वितीयोऽध्यायः ।
 
७१
 
</ignore>
<verse>
विहाय कामान्यः सर्वान्पुमांश्चरति निःस्पृहः ।

निर्ममो निरहंकारः स शान्तिमधिगच्छति ॥
 
:!
 
<fix> ७१ ॥</fix></verse>
<p>
विहाय परित्यज्य कामान् यः संन्यासी पुमान् सर्वान्

अशेषत:तः कात्स्न्र्त्स्न्येन चरति, जीवनमात्रचेष्टाशेषः पर्यटतीत्यर्थः ।

निःस्पृहः शरीरजीवनमात्रेऽपि निर्गता स्पृहा यस्य सः निः-

स्पृहः सन्, निर्ममः शरीरजीवनमात्राक्षिप्तपरिग्रहेऽपि ममेदम्

इत्यभिनिवेशवर्जितः, निरहंकार :रः विद्यावत्त्वादिनिमित्तात्मसं-

भावनारहितः इत्येतत् । सः एवंभूतः स्थितप्रज्ञः ब्रह्मवित्

शान्तिं सर्वसंसारदुःखोपरमलक्षणां निर्वाणाख्याम् अधिग-

च्छति प्राप्नोति ब्रह्मभूतो भवति इत्यर्थः ॥
 
</p>
<p>
सैषा ज्ञाननिष्ठा स्तूयते—
 
</p>
<verse>
एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति ।

स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति ॥
 
<fix> ७२ ॥</fix></verse>
<trailer>
इति श्रीमहाभारते शतसाहस्र्यां संहितायां वैयासिक्यां

भीष्मपर्वणि श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां

योगशास्त्रे श्रीकृष्णार्जुनसंवादे सांख्ययोगो नाम

द्वितीयोऽध्यायः ॥
 
</trailer>
</page>