Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
द्वितीयोऽध्यायः ।
 
६९
 
</ignore>
<p>
अतः कर्माणि अविद्यावस्थायामेव चोद्यन्ते, न विद्याव-

स्थायाम् । विद्यायां हि सत्याम् उदिते सवितरि शार्वरमिवं

तमः प्रणाशमुपगच्छति अविद्या । प्राक् विद्योत्पत्तेः अविद्या

प्रमाणबुद्धधाध्या गृह्यमाणा क्रियाकारकफलभेदरूपा सती सर्व-

कर्महेतुत्वं प्रतिपद्यते । न अप्रमाणबुद्ध्या गृह्यमाणाया:
याः
कर्महेतुत्वोपपत्तिः, ' <quote>&apos;प्रमाणभूतेन वेदेन मम चोदितं कर्तव्यं
कर्म'

कर्म&apos;</quote>
इति हि कर्मणि कर्ता प्रवर्तते, न '<quote>&apos;अविद्यामात्रमिदं

सर्वे निशेव'&apos;</quote> इति । यस्य पुनः '<quote>&apos;निशेव अविद्यामात्रमिदं

सर्वे भेदजातम्'&apos;</quote> इति ज्ञानं तस्य आत्मज्ञस्य सर्वकर्मसंन्यासे

एव अधिकारो न प्रवृत्तौ । तथा च दर्शयिष्यति — '&apos; तदु-

यस्तदात्मान:'&apos; इत्यादिना ज्ञाननिष्ठायामेव तस्य अधि-

कारम् ॥
 
</p>
<p merge-next="true">
तत्रापि प्रवर्तकप्रमाणाभावे प्रवृत्त्यनुपपत्तिः इति चेत्, न;

स्वात्मविषयत्वादात्मविज्ञानस्य । न हि आत्मनः स्वात्मनि

प्रवर्तकप्रमाणापेक्षता, आत्मत्वादेव । तदन्तत्वाच्च सर्वप्रमा-

णानां प्रमाणत्वस्य । न हि आत्मस्वरूपाधिगमे सति पुनः

प्रमाणप्रमेयव्यवहारः संभवति । प्रमातृत्वं हि आत्मन:
नः
निवर्तयति अन्त्यं प्रमाणम् ; निवर्तयदेव च अप्रमाणीभवति,
स्वप्र

स्वप्न
का प्रमाणमिव प्रबोधे । लोके च वस्त्वधिगमे प्रवृत्ति-
 
</p>
</page>