Proofing

This page has not been fully proofread.

द्वितीयोऽध्यायः ।
 
६९
 
अतः कर्माणि अविद्यावस्थायामेव चोद्यन्ते, न विद्याव-
स्थायाम् । विद्यायां हि सत्याम् उदिते सवितरि शार्वरमिवं
तमः प्रणाशमुपगच्छति अविद्या । प्राक् विद्योत्पत्तेः अविद्या
प्रमाणबुद्धधा गृह्यमाणा क्रियाकारकफलभेदरूपा सती सर्व-
कर्महेतुत्वं प्रतिपद्यते । न अप्रमाणबुद्धया गृह्यमाणाया:
कर्महेतुत्वोपपत्तिः, ' प्रमाणभूतेन वेदेन मम चोदितं कर्तव्यं
कर्म' इति हि कर्मणि कर्ता प्रवर्तते, न 'अविद्यामात्रमिदं
सर्वे निशेव' इति । यस्य पुनः 'निशेव अविद्यामात्रमिदं
सर्वे भेदजातम्' इति ज्ञानं तस्य आत्मज्ञस्य सर्वकर्मसंन्यासे
एव अधिकारो न प्रवृत्तौ । तथा च दर्शयिष्यति — ' तदु-
यस्तदात्मान:' इत्यादिना ज्ञाननिष्ठायामेव तस्य अधि-
कारम् ॥
 
तत्रापि प्रवर्तकप्रमाणाभावे प्रवृत्त्यनुपपत्तिः इति चेत्, न;
स्वात्मविषयत्वादात्मविज्ञानस्य । न हि आत्मनः स्वात्मनि
प्रवर्तकप्रमाणापेक्षता, आत्मत्वादेव । तदन्तत्वाच्च सर्वप्रमा-
णानां प्रमाणत्वस्य । न हि आत्मस्वरूपाधिगमे सति पुनः
प्रमाणप्रमेयव्यवहारः संभवति । प्रमातृत्वं हि आत्मन:
निवर्तयति अन्त्यं प्रमाणम् ; निवर्तयदेव च अप्रमाणीभवति,
स्वप्रका प्रमाणमिव प्रबोधे । लोके च वस्त्वधिगमे प्रवृत्ति-