2026-05-04 01:33:21 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>६८
श्रीमद्भगवद्गीताभाष्ये
</ignore>
<p>योऽयं लौकिको वैदिकश्च व्यवहारः स उत्पन्नविवेकज्ञा-
नस्य स्थितप्रज्ञस्य अविद्याकार्यत्वात् अविद्यानिवृत्तौ निव-
र्तते, अविद्यायाश्च विद्याविरोधातत् निवृत्तिः, इत्येतमर्थं स्फुटी -
-
कुर्वन् आह-
--</p>
<verse>या निशा सर्वभूतानां
तस्यां जागर्ति संयमी ।
यस्यां जाग्रति भूतानि
सा निशा पश्यतो मुनेः ॥ ६९ ॥
</verse>
<p>या निशा रात्रिः सर्वपदार्थानामविवेककरी तमःस्वभाव -
त्वात् सर्वभूतानां सर्वेषां भूतानाम् । किं तत् परमार्थतत्त्वं
स्थितप्रज्ञस्य विषयः । यथा नक्तंचराणाम् अहरेव सद-
न्येषां निशा भवति, तद्वत् नक्तंचरस्थानीयानामज्ञानां
सर्वभूतानां निशेव निशा परमार्थतत्त्वम्, अगोचरत्वादत-
ह्रु
द्बुद्धीनाम् । तस्यां परमार्थतत्त्वलक्षणायामज्ञाननिद्रायाः प्र-
बुद्धो जागर्ति संयमी संयमवान्, जितेन्द्रियो योगीत्यर्थः ।
यस्यां ग्राह्यग्राहकभेदलक्षणायामविद्यानिशायां प्रसुप्तान्येव
भूतानि जाग्रति इति उच्यन्ते, यस्यां निशायां प्रसुप्ता इव
स्वप्नदृशः, सा निशा अविद्यारूपत्वात् परमार्थतत्त्वं पश्यतो.
मुनेः ॥
</p>
</page>
<ignore>६८
<p>योऽयं लौकिको वैदिकश्च व्यवहारः स उत्पन्नविवेकज्ञा-
नस्य स्थितप्रज्ञस्य अविद्याकार्यत्वात् अविद्यानिवृत्तौ निव-
र्तते, अविद्यायाश्च विद्याविरोधा