Proofing

This page has been fully proofread once and needs a second look.

.<page>
<ignore>
.
 
श्रीमद्भगवद्गीताभाष्ये
 
:
</ignore>
<p>
प्रसादे सर्वदुःखानाम् आध्यात्मिकादीनां हानि: विनाश:
निः विनाशः
अस्य यतेः उपजायते । किंच --- प्रसन्नचेतसः स्वस्थान्तः-

करणस्य हि यस्मात् आशु शीघ्रं बुद्धिः पर्यवतिष्ठते आका-

शमिव परि समन्तात् अवतिष्ठते, आत्मस्वरूपेणैव निश्चली-

भवतीत्यर्थः ॥
 
}
 
</p>
<p>
एवं प्रसन्नचेतसः अवस्थितबुद्धेः कृतकृत्यता यतः,

तस्मात् रागद्वेषवियुक्तैः इन्द्रियैः शास्त्राविरुद्धेषु अवर्जनीयेषु

युक्तः समाचरेत् इति वाक्यार्थः ॥
 
</p>
<p>
सेयं प्रसन्नता स्तूयते—
 
</p>
<verse>
नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना !

न चाभावयतः शान्तिरशान्तस्य कुतः सुखम् ॥
 
-
 
<fix> ६६ ॥</fix></verse>
<p>
नास्ति न विद्यते न भवतीत्यर्थः, बुद्धि:धिः आत्मस्वरूपविषया

अयुक्तस्य असमाहितान्तःकरणस्य । न च अस्ति अयुक्तस्य

भावना आत्मज्ञानाभिनिवेशः । तथा- न च अस्ति अभा-
वयतः
आत्मज्ञानाभिनिवेश: । तथा- न च अस्ति अभा-
बयतः आत्मज्ञानाभिनिवेश
मकुर्वतः शान्तिः उपशमः । अशा-

न्तस्य कुतः सुखम् ? इन्द्रियाणां हि विषयसेवातृष्णातः निवृ-

त्तिर्या तत्सुखंम्, न विषयविषया तृष्णा । दुःखमेव हि सा ।

न तृष्णायां सत्यां सुखस्य गन्धमात्रमप्युपपद्यते इत्यर्थः ॥
 
</p>
</page>