Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
६४
 
श्रीमद्भगवद्गीताभाष्ये
 
</ignore>
<p>
अथेदानीं पराभविष्यतः सर्वानर्थमूलमिदमुच्यते—
 
</p>
<verse>
ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते ।

सङ्गात्संजायते कामः कामात्क्रोधोऽभिजायते ॥
 
<fix> ६२ ॥</fix></verse>
<p>
ध्यायतः चिन्तयतः विषयान् शब्दादीन् विषयविशेषान्

आलोचयतः पुंसः पुरुषस्य सङ्गः आसक्तिः प्रीतिः तेषु

विषयेषु उपजायते उत्पद्यते । सङ्गात् प्रीतेः संजायते

समुत्पद्यते कामः तृष्णा । कामात् कुतश्चित् प्रतिहतात्

क्रोधः अभिजायते ॥
 
.
 
</p>
<verse>
क्रोधाद्भवति संमोहः संमोहात्स्मृतिविभ्रमः ।

स्मृतिभ्रंशाहुद्बुद्धिनाशो वुबुद्धिनाशात्प्रणश्यति ॥
 
</verse>
<p merge-next="true">
क्रोधात् भवति संमोहः अविवेकः कार्याकार्यविषयः ।

क्रुद्धो हि संमूढः सन् गुरुमप्याक्रोशति । संमोहात् स्मृति-

विभ्रमः शास्त्रांराचार्योपदेशाहितसंस्कारजनितायाः स्मृतेः स्यात्

विभ्रमो भ्रंशः स्मृत्युत्पत्तिनिमित्तप्राप्तौ अनुत्पत्तिः । ततः

स्मृतिभ्रंशात् बुद्धिनाशः बुद्धेर्नाशः । कार्याकार्यविषयविवेका-

योग्यता अन्तःकरणस्य बुद्धेर्नाश उच्यते । बुद्धिनाशात्

प्रणश्यति । तावदेव हि पुरुषः यावदन्तःकरणं तदीयं
 
</p>
</page>