Proofing

This page has not been fully proofread.

६४
 
श्रीमद्भगवद्गीताभाष्ये
 
अथेदानीं पराभविष्यतः सर्वानर्थमूलमिदमुच्यते—
 
ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते ।
सङ्गात्संजायते कामः कामात्क्रोधोऽभिजायते ॥
 
ध्यायतः चिन्तयतः विषयान् शब्दादीन् विषयविशेषान्
आलोचयतः पुंसः पुरुषस्य सङ्गः आसक्तिः प्रीतिः तेषु
विषयेषु उपजायते उत्पद्यते । सङ्गात् प्रीतेः संजायते
समुत्पद्यते कामः तृष्णा । कामात् कुतश्चित् प्रतिहतात्
क्रोधः अभिजायते ॥
 
.
 
क्रोधाद्भवति संमोहः संमोहात्स्मृतिविभ्रमः ।
स्मृतिभ्रंशाहुद्धिनाशो वुद्धिनाशात्प्रणश्यति ॥
 
क्रोधात् भवति संमोहः अविवेकः कार्याकार्यविषयः ।
क्रुद्धो हि संमूढः सन् गुरुमप्याक्रोशति । संमोहात् स्मृति-
विभ्रमः शास्त्रांचार्योपदेशाहितसंस्कारजनितायाः स्मृतेः स्यात्
विभ्रमो भ्रंशः स्मृत्युत्पत्तिनिमित्तप्राप्तौ अनुत्पत्तिः । ततः
स्मृतिभ्रंशात् बुद्धिनाशः बुद्धेर्नाशः । कार्याकार्यविषयविवेका-
योग्यता अन्तःकरणस्य बुद्धेर्नाश उच्यते । बुद्धिनाशात्
प्रणश्यति । तावदेव हि पुरुषः यावदन्तःकरणं तदीयं