Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
द्वितीयोऽध्यायः ।
 
६३
 
</ignore>
<p>
सम्यग्दर्शनलक्षणप्रज्ञास्थैर्य चिकीर्षता आदौ इन्द्रियाणि

स्ववशे स्थापयितव्यानि, यस्मात्तदनवस्थापने दोषमाह -
--</p>
<verse>
यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः ।

इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ॥
 
<fix> ६० ॥</fix></verse>
<p>
यततः प्रयत्नं कुर्वतः हि यस्मात् कौन्तेय पुरुषस्य

विपश्चितः मेधाविनः अपि इति व्यवहितेन संबन्धः ।

इन्द्रियाणि प्रमाथीनि प्रमथनशीलानि विषयाभिमुखं हि पुरुषं

विक्षोभयन्ति आकुलीकुर्वन्ति, आकुलीकृत्य च हरन्ति प्रसभं

प्रसह्य प्रकाशमेव पश्यतो विवेकविज्ञानयुक्तं मनः ॥
 
</p>
<p>
यतः तस्मात् --
 
-</p>
<verse>
तानि सर्वाणि संयम्य युक्त आसीत मत्परः ।

वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता
 
॥<fix> ६१ ॥</fix></verse>
<p>
तानि सर्वाणि संयम्य संयमनं वशीकरणं कृत्वा युक्तः
 

समाहितः सन् आसीत मत्परः अहं वासुदेवः सर्वप्रत्यगात्मा

परो यस्य सः मत्परः, '&apos;न अन्योऽहं तस्मात्'&apos; इति आसीत

इत्यर्थः । एवमासीनस्य यतेः वशे हि यस्य इन्द्रियाणि

वर्तन्ते अभ्यासबलात् तस्य प्रज्ञा प्रतिष्ठिता ॥
 
</p>
</page>